हृद्गुहाश्रितपक्षीन्द्र- वल्गुवाक्यैः कृतस्तुते।
तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते।
अत्युन्नताखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित।
सत्ययोजितसत्यात्मन् सत्यभामापते नमः।
जाम्बवत्याः कम्बुकण्ठालम्ब- जृम्भिकराम्बुज।
शम्भुत्र्यम्बकसम्भाव्य साम्बतात नमोऽस्तु ते।
नीलाय विलसद्भूषा- जलयोज्ज्वालमालिने।
लोलालकोद्यत्फालाय कालिन्दीपतये नमः।
जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे।
मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते।
बालनेत्रोत्सवानन्त- लीलालावण्यमूर्तये।
नीलाकान्ताय ते भक्तवालायास्तु नमो नमः।
भद्राय स्वजनाविद्यानिद्रा- विद्रवणाय वै।
रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः।
रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे।
लक्षणापतये नित्यं भिक्षुश्लक्ष्णाय ते नमः।
गणेश अपराध क्षमापण स्तोत्र
कृता नैव पूजा मया भक्त्यभावात् प्रभो मन्दिरं नैव दृष्टं तवैकम्| क्षमाशील कारुण्यपूर्ण प्रसीद समस्तापराधं क्षमस्वैकदन्त| न पाद्यं प्रदत्तं न चार्घ्यं प्रदत्तं न वा पुष्पमेकं फलं नैव दत्तम्| गजेशान शम्भोस्तनूज प्रसीद समस्तापराधं क्षमस्वैकदन्त| न वा मोदकं
Click here to know more..ताण्डवेश्वर स्तोत्र
वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे। इतीशानः सर्वान्परमकरुणा- नीरधिरहो पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति। संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः। हस्तेऽग्निं दधदे
Click here to know more..बलरामजी सूतजी के ऊपर ब्रह्मास्त्र से प्रहार करते हैं