शिवांशं त्रयीमार्गगामिप्रियं तं
कलिघ्नं तपोराशियुक्तं भवन्तम्।
परं पुण्यशीलं पवित्रीकृताङ्गं
भजे शङ्कराचार्यमाचार्यरत्नम्।
करे दण्डमेकं दधानं विशुद्धं
सुरैर्ब्रह्मविष्ण्वादिभिर्ध्यानगम्यम्।
सुसूक्ष्मं वरं वेदतत्त्वज्ञमीशं
भजे शङ्कराचार्यमाचार्यरत्नम्।
रवीन्द्वक्षिणं सर्वशास्त्रप्रवीणं
समं निर्मलाङ्गं महावाक्यविज्ञम्।
गुरुं तोटकाचार्यसम्पूजितं तं
भजे शङ्कराचार्यमाचार्यरत्नम्।
चरं सच्चरित्रं सदा भद्रचित्तं
जगत्पूज्यपादाब्जमज्ञाननाशम्।
जगन्मुक्तिदातारमेकं विशालं
भजे शङ्कराचार्यमाचार्यरत्नम्।
यतिश्रेष्ठमेकाग्रचित्तं महान्तं
सुशान्तं गुणातीतमाकाशवासम्।
निरातङ्कमादित्यभासं नितान्तं
भजे शङ्कराचार्यमाचार्यरत्नम्।
पठेत् पञ्चरत्नं सभक्तिर्हि भक्तः
सदा शङ्कराचार्यरत्नस्य नित्यम्।
लभेत प्रपूर्णं सुखं जीवनं सः
कृपां साधुविद्यां धनं सिद्धिकीर्ती।
विंध्येश्वरी स्तोत्र
निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम्। वने रणे प....
Click here to know more..अष्टलक्ष्मी स्तोत्र
सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममये मुनिगणम....
Click here to know more..खेडब्रह्मा मंदिर