तुकाराम अष्टक स्तोत्र

सतां श्रेष्ठं परात्मानमनन्यसदृशं गुरुम् ।
उग्रमन्तर्मृदुं वन्दे तुकारामं हरिप्रियम् ॥

अम्बलेकुलसम्भूतं देहूग्रामविभूषणम् ।
विरक्तिवल्लभं वन्दे तुकारामं हरिप्रियम् ॥

अभङ्गरचना यस्य सर्वसाधकदेशिका ।
जनोद्धर्त्री च तं वन्दे तुकारामं हरिप्रियम् ॥

वैकुण्ठभवनं त्यक्त्वा लोककल्याणहेतवे ।
अवतीर्णं प्रभुं वन्दे तुकारामं हरिप्रियम् ॥

प्रेममूर्तिं भक्तवर्यं सर्ववेदान्तरूपिणम् ।
दयालुं करुणं वन्दे तुकारामं हरिप्रियम् ॥

सदाचारपथादर्शं अज्ञानान्धदिवाकरम् ।
प्रसन्नं पावनं वन्दे तुकारामं हरिप्रियम् ॥

वेदनीतेः प्रणेतारं दीपं साधनवर्त्मनः ।
पाखण्डखण्डिनं वन्दे तुकारामं हरिप्रियम् ॥

विठ्ठलाङ्घ्रिरतं नित्यं वरदानन्ददैवतम् ।
शान्तं कृपाकरं वन्दे तुकारामं हरिप्रियम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: English

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |