आबाल्यात् किल संप्रदायविधुरे वैदेशिकेऽध्वन्यहं
सम्भ्रम्याद्य विमूढधीः पुनरपि स्वाचारमार्गे रतः।
कृत्याकृत्यविवेक- शून्यहृदयस्त्वत्पादमूलं श्रये
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
आत्मानं यदि चेन्न वेत्सि सुकृतप्राप्ते नरत्वे सति
नूनं ते महती विनष्टिरिति हि ब्रूते श्रुतिः सत्यगीः।
आत्मावेदनमार्ग- बोधविधुरः कं वा शरण्यं भजे
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
कामक्रोधमदादि- मूढहृदयाः प्रज्ञाविहीना अपि
त्वत्पादाम्बुजसेवनेन मनुजाः संसारपाथोनिधिम्।
तीर्त्वा यान्ति सुखेन सौख्यपदवीं ज्ञानैकसाध्यां यतः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
रथ्यापङ्कगकीटवद्- भ्रमवशाद् दुःखं सुखं जानतः
कान्तापत्यमुखेक्षणेन कृतिनं चात्मानमाध्यायतः।
वैराग्यं किमुदेति शान्तमनसोऽप्याप्तुं सुदूरं ततः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
भार्यायाः पतिरात्मजस्य जनको भ्रातुः समानोदरः
पित्रोरस्मि तनूद्भवः प्रियसुहृद्बन्धुः प्रभुर्वान्यथा।
इत्येवं प्रविभाव्य मोहजलधौ मज्जामि देहात्मधीः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
सत्कर्माणि किमाचरेयमथवा किं देवताराधना-
मात्मानात्मविवेचनं किमु करोम्यात्मैकसंस्थां किमु।
इत्यालोचनसक्त एव जडधीः कालं नयामि प्रभो
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
किं वा स्वाश्रितपोषणाय विविधक्लेशान् सहेयानिशं
किं वा तैरभिकाङ्क्षितं प्रतिदिनं सम्पादयेयं धनम्।
किं ग्रन्थान् परिशीलयेयमिति मे कालो वृथा याप्यते
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
संसाराम्बुधि- वीचिभिर्बहुविधं सञ्चारुयमानस्य मे
मायाकल्पितमेव सर्वमिति धीः श्रुत्योपदिष्टा मुहुः।
सद्युक्त्या च दृढीकृतापि बहुशो नोदेति यस्मात्प्रभो
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
यज्ज्ञानात् सुनिवर्तते भवसुखभ्रान्तिः सुरूढा क्षणात्
यद्ध्यानात् किल दुःखजालमखिलं दूरीभवेदञ्जसा।
यल्लाभादपरं सुखं किमपि नो लब्धव्यमास्ते ततः
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।
सत्यभ्रान्तिमनित्य- दृश्यजगति प्रातीतिकेऽनात्मनि
त्यक्त्वा सत्यचिदात्मके निजसुखे नन्दामि नित्यं यथा।
भूयः संसृतितापतत्पहृदयो न स्यां यथा च प्रभो
श्रीमन् लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।