नमो नमो भारताम्बे सारस्वतशरीरिणि ।
नमोऽस्तु जगतां वन्द्ये ब्रह्मविद्याप्रकाशिनि ।
नमो नमो भारताम्बे हिमालयकिरीटिनि ।
गङ्गाद्याः सरितः सर्वाः स्तन्यं ते विश्वपावनि ।
नमो नमो भारताम्बे बदरीशण्डमण्डिते ।
तीर्थीकुर्वन्ति लोकांस्ते तीर्थभूता मुनीश्वराः ।
नमो नमो भारताम्बे विन्ध्यतुङ्गस्तनायिते ।
समुद्रवसने देवि सह्यमालाविराजिते ।
नमो नमो भारताम्बे मुक्तिकेदाररूपिणि ।
ज्ञानबीजाकरे पूर्णे ऋषीन्द्रततिसेविते ।
नमो नमो भारताम्बे सर्वविद्याविलासिनि ।
गौडमैथिलकाम्पिल्यद्रविडादिशरीरिणि ।
नमो नमो भारताम्बे सर्वतीर्थस्वरूपिणि ।
काश्या हि काशसे मातस्त्वं हि सर्वप्रकाशिका ।
नमो नमो भारताम्बे गुरुस्त्वं जगतां परा ।
वेदवेदान्तगम्भीरे निर्वाणसुखदायिनि ।
यतिलोकपदन्यासपवित्रीकृतपांसवे ।
नमोऽस्तु जगतां धात्रि मोक्षमार्गैकसेतवे ।
एक श्लोकी भागवत
आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनं मायापूतनजीवित....
Click here to know more..कामाक्षी स्तुति
माये महामति जये भुवि मङ्गलाङ्गे वीरे बिलेशयगले त्रिपुर....
Click here to know more..कालिका पुराण
हिमालय के समीप में विराजमान मुनियों ने परमाधिक श्रेष्ठ म....
Click here to know more..