दक्षिणामूर्ति दशक स्तोत्र

पुन्नागवारिजातप्रभृतिसुमस्रग्विभूषितग्रीवः।
पुरगर्वमर्दनचणः पुरतो मम भवतु दक्षिणामूर्तिः।
पूजितपदाम्बुजातः पुरुषोत्तमदेवराजपद्मभवैः।
पूगप्रदः कलानां पुरतो मम भवतु दक्षिणामूर्तिः।
हालाहलोज्ज्वलगलः शैलादिप्रवरगणैर्वीतः।
कालाहङ्कृतिदलनः पुरतो मम भवतु दक्षिणामूर्तिः।
कैलासशैलानलयो लीलालेशेन निर्मिताजाण्डः।
बालाब्जकृतावतंसः पुरतो मम भवतु दक्षिणामूर्तिः।
चेलाजितकुन्ददुग्धो लोलः शैलाधिराजतनयायाम्।
फालविराजद्वह्निः पुरतो मम भवतु दक्षिणामूर्तिः।
न्यग्रोधमूलवासी न्यक्कृतचन्द्रो मुखाम्बुजातेन।
पुण्यैकलभ्यचरणः पुरतो मम भवतु दक्षिणामूर्तिः।
मन्दार आनतततेर्वृन्दारकवृन्दवन्दितपदाब्जः।
वन्दारुपूर्णकरुणः पुरतो मम भवतु दक्षिणामूर्तिः।
मुक्तामालाभूषस्त्यक्ताशप्रवरयोगिभिः सेव्यः।
भक्ताखिलेष्टदायी पुरतो मम भवतु दक्षिणामूर्तिः।
मुद्रामालामृतधटपुस्तकराजत्कराम्भोजः।
मुक्तिप्रदाननिरतः पुरतो मम भवतु दक्षिणामूर्तिः।
स्तोकार्चनपरितुष्टः शोकापहपादपङ्कजस्मरणः।
लोकावनकृतदीक्षः पुरतो मम भवतु दक्षिणामूर्तिः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies