Bhagavad Gita - Chapter 2

अथ द्वितीयोऽध्यायः ।
साङ्ख्ययोगः ।

सञ्जय उवाच -

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥

श्रीभगवानुवाच -

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥

अर्जुन उवाच -

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥

सञ्जय उवाच -

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥

श्रीभगवानुवाच -

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥

आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः श‍ृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श‍ृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥

अर्जुन उवाच -

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥

श्रीभगवानुवाच -

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥

atha dviteeyo'dhyaayah' .
saankhyayogah' .

sanjaya uvaacha -

tam' tathaa kri'payaavisht'amashrupoornaakulekshanam .
visheedantamidam' vaakyamuvaacha madhusoodanah' ..

shreebhagavaanuvaacha -

kutastvaa kashmalamidam' vishame samupasthitam .
anaaryajusht'amasvargyamakeertikaramarjuna ..

klaibyam' maa sma gamah' paartha naitattvayyupapadyate .
kshudram' hri'dayadaurbalyam' tyaktvottisht'ha parantapa ..

arjuna uvaacha -

katham' bheeshmamaham' sankhye dronam' cha madhusoodana .
ishubhih' pratiyotsyaami poojaarhaavarisoodana ..

guroonahatvaa hi mahaanubhaavaan
shreyo bhoktum' bhaikshyamapeeha loke .
hatvaarthakaamaam'stu guroonihaiva
bhunjeeya bhogaan rudhirapradigdhaan ..

na chaitadvidmah' kataranno gareeyo
yadvaa jayema yadi vaa no jayeyuh' .
yaaneva hatvaa na jijeevishaama-
ste'vasthitaah' pramukhe dhaartaraasht'raah' ..

kaarpanyadoshopahatasvabhaavah'
pri'chchhaami tvaam' dharmasammood'hachetaah' .
yachchhreyah' syaannishchitam' broohi tanme
shishyaste'ham' shaadhi maam' tvaam' prapannam ..

na hi prapashyaami mamaapanudyaad
yachchhokamuchchhoshanamindriyaanaam .
avaapya bhoomaavasapatnamri'ddham'
raajyam' suraanaamapi chaadhipatyam ..

sanjaya uvaacha -

evamuktvaa hri'sheekesham' gud'aakeshah' parantapa .
na yotsya iti govindamuktvaa tooshneem' babhoova ha ..

tamuvaacha hri'sheekeshah' prahasanniva bhaarata .
senayorubhayormadhye visheedantamidam' vachah' ..

shreebhagavaanuvaacha -

ashochyaananvashochastvam' prajnyaavaadaam'shcha bhaashase .
gataasoonagataasoom'shcha naanushochanti pand'itaah' ..

na tvevaaham' jaatu naasam' na tvam' neme janaadhipaah' .
na chaiva na bhavishyaamah' sarve vayamatah' param ..

dehino'sminyathaa dehe kaumaaram' yauvanam' jaraa .
tathaa dehaantarapraaptirdheerastatra na muhyati ..

maatraasparshaastu kaunteya sheetoshnasukhaduh'khadaah' .
aagamaapaayino'nityaastaam'stitikshasva bhaarata ..

yam' hi na vyathayantyete purusham' purusharshabha .
samaduh'khasukham' dheeram' so'mri'tatvaaya kalpate ..

naasato vidyate bhaavo naabhaavo vidyate satah' .
ubhayorapi dri'sht'o'ntastvanayostattvadarshibhih' ..

avinaashi tu tadviddhi yena sarvamidam' tatam .
vinaashamavyayasyaasya na kashchitkartumarhati ..

antavanta ime dehaa nityasyoktaah' shareerinah' .
anaashino'prameyasya tasmaadyudhyasva bhaarata ..

ya enam' vetti hantaaram' yashchainam' manyate hatam .
ubhau tau na vijaaneeto naayam' hanti na hanyate ..

na jaayate mriyate vaa kadaachin
naayam' bhootvaa bhavitaa vaa na bhooyah' .
ajo nityah' shaashvato'yam' puraano
na hanyate hanyamaane shareere ..

vedaavinaashinam' nityam' ya enamajamavyayam .
katham' sa purushah' paartha kam' ghaatayati hanti kam ..

vaasaam'si jeernaani yathaa vihaaya
navaani gri'hnaati naro'paraani .
tathaa shareeraani vihaaya jeernaa-
nyanyaani sam'yaati navaani dehee ..

nainam' chhindanti shastraani nainam' dahati paavakah' .
na chainam' kledayantyaapo na shoshayati maarutah' ..

achchhedyo'yamadaahyo'yamakledyo'shoshya eva cha .
nityah' sarvagatah' sthaanurachalo'yam' sanaatanah' ..

avyakto'yamachintyo'yamavikaaryo'yamuchyate .
tasmaadevam' viditvainam' naanushochitumarhasi ..

atha chainam' nityajaatam' nityam' vaa manyase mri'tam .
tathaapi tvam' mahaabaaho naivam' shochitumarhasi ..

jaatasya hi dhruvo mri'tyurdhruvam' janma mri'tasya cha .
tasmaadaparihaarye'rthe na tvam' shochitumarhasi ..

avyaktaadeeni bhootaani vyaktamadhyaani bhaarata .
avyaktanidhanaanyeva tatra kaa paridevanaa ..

aashcharyavatpashyati kashchidena-
maashcharyavadvadati tathaiva chaanyah' .
aashcharyavachchainamanyah' shri'noti
shrutvaapyenam' veda na chaiva kashchit ..

dehee nityamavadhyo'yam' dehe sarvasya bhaarata .
tasmaatsarvaani bhootaani na tvam' shochitumarhasi ..

svadharmamapi chaavekshya na vikampitumarhasi .
dharmyaaddhi yuddhaachchhreyo'nyatkshatriyasya na vidyate ..

yadri'chchhayaa chopapannam' svargadvaaramapaavri'tam .
sukhinah' kshatriyaah' paartha labhante yuddhameedri'sham ..

atha chettvamimam' dharmyam' sangraamam' na karishyasi .
tatah' svadharmam' keertim' cha hitvaa paapamavaapsyasi ..

akeertim' chaapi bhootaani kathayishyanti te'vyayaam .
sambhaavitasya chaakeertirmaranaadatirichyate ..

bhayaadranaaduparatam' mam'syante tvaam' mahaarathaah' .
yeshaam' cha tvam' bahumato bhootvaa yaasyasi laaghavam ..

avaachyavaadaam'shcha bahoonvadishyanti tavaahitaah' .
nindantastava saamarthyam' tato duh'khataram' nu kim ..

hato vaa praapsyasi svargam' jitvaa vaa bhokshyase maheem .
tasmaaduttisht'ha kaunteya yuddhaaya kri'tanishchayah' ..

sukhaduh'khe same kri'tvaa laabhaalaabhau jayaajayau .
tato yuddhaaya yujyasva naivam' paapamavaapsyasi ..

eshaa te'bhihitaa saankhye buddhiryoge tvimaam' shri'nu .
buddhyaa yukto yayaa paartha karmabandham' prahaasyasi ..

nehaabhikramanaasho'sti pratyavaayo na vidyate .
svalpamapyasya dharmasya traayate mahato bhayaat ..

vyavasaayaatmikaa buddhirekeha kurunandana .
bahushaakhaa hyanantaashcha buddhayo'vyavasaayinaam ..

yaamimaam' pushpitaam' vaacham' pravadantyavipashchitah' .
vedavaadarataah' paartha naanyadasteeti vaadinah' ..

kaamaatmaanah' svargaparaa janmakarmaphalapradaam .
kriyaavisheshabahulaam' bhogaishvaryagatim' prati ..

bhogaishvaryaprasaktaanaam' tayaapahri'tachetasaam .
vyavasaayaatmikaa buddhih' samaadhau na vidheeyate ..

traigunyavishayaa vedaa nistraigunyo bhavaarjuna .
nirdvandvo nityasattvastho niryogakshema aatmavaan ..

yaavaanartha udapaane sarvatah' samplutodake .
taavaansarveshu vedeshu braahmanasya vijaanatah' ..

karmanyevaadhikaaraste maa phaleshu kadaachana .
maa karmaphalaheturbhoormaa te sango'stvakarmani ..

yogasthah' kuru karmaani sangam' tyaktvaa dhananjaya .
siddhyasiddhyoh' samo bhootvaa samatvam' yoga uchyate ..

doorena hyavaram' karma buddhiyogaaddhananjaya .
buddhau sharanamanvichchha kri'panaah' phalahetavah' ..

buddhiyukto jahaateeha ubhe sukri'tadushkri'te .
tasmaadyogaaya yujyasva yogah' karmasu kaushalam ..

karmajam' buddhiyuktaa hi phalam' tyaktvaa maneeshinah' .
janmabandhavinirmuktaah' padam' gachchhantyanaamayam ..

yadaa te mohakalilam' buddhirvyatitarishyati .
tadaa gantaasi nirvedam' shrotavyasya shrutasya cha ..

shrutivipratipannaa te yadaa sthaasyati nishchalaa .
samaadhaavachalaa buddhistadaa yogamavaapsyasi ..

arjuna uvaacha -

sthitaprajnyasya kaa bhaashaa samaadhisthasya keshava .
sthitadheeh' kim' prabhaasheta kimaaseeta vrajeta kim ..

shreebhagavaanuvaacha -

prajahaati yadaa kaamaansarvaanpaartha manogataan .
aatmanyevaatmanaa tusht'ah' sthitaprajnyastadochyate ..

duh'kheshvanudvignamanaah' sukheshu vigataspri'hah' .
veetaraagabhayakrodhah' sthitadheermuniruchyate ..

yah' sarvatraanabhisnehastattatpraapya shubhaashubham .
naabhinandati na dvesht'i tasya prajnyaa pratisht'hitaa ..

yadaa sam'harate chaayam' koormo'ngaaneeva sarvashah' .
indriyaaneendriyaarthebhyastasya prajnyaa pratisht'hitaa ..

vishayaa vinivartante niraahaarasya dehinah' .
rasavarjam' raso'pyasya param' dri'sht'vaa nivartate ..

yatato hyapi kaunteya purushasya vipashchitah' .
indriyaani pramaatheeni haranti prasabham' manah' ..

taani sarvaani sam'yamya yukta aaseeta matparah' .
vashe hi yasyendriyaani tasya prajnyaa pratisht'hitaa ..

dhyaayato vishayaanpum'sah' sangasteshoopajaayate .
sangaatsanjaayate kaamah' kaamaatkrodho'bhijaayate ..

krodhaadbhavati sammohah' sammohaatsmri'tivibhramah' .
smri'tibhram'shaad buddhinaasho buddhinaashaatpranashyati ..

raagadveshavimuktaistu vishayaanindriyaishcharan .
aatmavashyairvidheyaatmaa prasaadamadhigachchhati ..

prasaade sarvaduh'khaanaam' haanirasyopajaayate .
prasannachetaso hyaashu buddhih' paryavatisht'hate ..

naasti buddhirayuktasya na chaayuktasya bhaavanaa .
na chaabhaavayatah' shaantirashaantasya kutah' sukham ..

indriyaanaam' hi charataam' yanmano'nuvidheeyate .
tadasya harati prajnyaam' vaayurnaavamivaambhasi ..

tasmaadyasya mahaabaaho nigri'heetaani sarvashah' .
indriyaaneendriyaarthebhyastasya prajnyaa pratisht'hitaa ..

yaa nishaa sarvabhootaanaam' tasyaam' jaagarti sam'yamee .
yasyaam' jaagrati bhootaani saa nishaa pashyato muneh' ..

aapooryamaanamachalapratisht'ham'
samudramaapah' pravishanti yadvat .
tadvatkaamaa yam' pravishanti sarve
sa shaantimaapnoti na kaamakaamee ..

vihaaya kaamaanyah' sarvaanpumaam'shcharati nih'spri'hah' .
nirmamo nirahankaarah' sa shaantimadhigachchhati ..

eshaa braahmee sthitih' paartha nainaam' praapya vimuhyati .
sthitvaasyaamantakaale'pi brahmanirvaanamri'chchhati ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
saankhyayogo naama dviteeyo'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies