सर्वजीवशरण्ये श्रीसीते वात्सल्यसागरे।
मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम्।
कोटिकन्दर्पलावण्यां सौन्दर्य्यैकस्वरूपिणीम्।
सर्वमङ्गलमाङ्गल्यां भूमिजां शरणं व्रजे।
शरणागतदीनार्त्त- परित्राणपरायणाम्।
सर्वस्यार्तिहरां रामव्रतां तां शरणं व्रजे।
सीतां विदेहतनयां रामस्य दयितां शुभाम्।
हनूमता समाश्वस्तां भूमिजां शरणं व्रजे।
अस्मिन् कलिमलाकीर्णे काले घोरभवार्णवे।
प्रपन्नानां गतिर्नास्ति श्रीमद्रामप्रियां विना।
गणपति कल्याण स्तोत्र
सर्वविघ्नविनाशाय सर्वकल्याणहेतवे। पार्वतीप्रियपुत्र....
Click here to know more..वामन स्तोत्र
देवेश्वराय देवाय देवसम्भूतिकारिणे। प्रभवे सर्ववेदाना....
Click here to know more..मैं हीन हूं तो तेरा