राघव स्तुति

आञ्जनेयार्चितं जानकीरञ्जनं
भञ्जनारातिवृन्दारकञ्जाखिलम्।
कञ्जनानन्तखद्योतकञ्जारकं
गञ्जनाखण्डलं खञ्जनाक्षं भजे।
कुञ्जरास्यार्चितं कञ्जजेन स्तुतं
पिञ्जरध्वंसकञ्जारजाराधितम्।
कुञ्जगञ्जातकञ्जाङ्गजाङ्गप्रदं
मञ्जुलस्मेरसम्पन्नवक्त्रं भजे।
बालदूर्वादलश्यामलश्रीतनुं
विक्रमेणावभग्नत्रिशूलीधनुम्।
तारकब्रह्मनामद्विवर्णीमनुं
चिन्तयाम्येकतारिन्तनूभूदनुम्।
कोशलेशात्मजानन्दनं चन्दना-
नन्ददिक्स्यन्दनं वन्दनानन्दितम्।
क्रन्दनान्दोलितामर्त्यसानन्ददं
मारुतिस्यन्दनं रामचन्द्रं भजे।
भीदरन्ताकरं हन्तृदूषिन्खरं
चिन्तिताङ्घ्र्याशनीकालकूटीगरम्।
यक्षरूपे हरामर्त्यदम्भज्वरं
हत्रियामाचरं नौमि सीतावरम्।
शत्रुहृत्सोदरं लग्नसीताधरं
पाणवैरिन् सुपर्वाणभेदिन् शरम्।
रावणत्रस्तसंसारशङ्काहरं
वन्दितेन्द्रामरं नौमि स्वामिन्नरम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies