राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
जानकीवदनारविन्द- दिवाकरं गुणभाजनम्।
वालिसूनुहितैषिणं हनुमत्प्रियं कमलेक्षणं
यातुधान-भयङ्करं प्रणमामि राघवकुञ्जरम्।
मैथिलीकुचभूषणामल- नीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम दैवतम्।
नागरीवनिताननाम्बुज- बोधनीयकलेवरं
सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम्।
हेमकुण्डलमण्डितामल- कण्ठदेशमरिन्दमं
शातकुम्भमयूरनेत्र- विभूषणेन विभूषितम्।
चारुनूपुरहार- कौस्तुभकर्णभूषण- भूषितं
भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम्।
दण्डकाख्यवने रतामरसिद्ध- योगिगणाश्रयं
शिष्टपालन-तत्परं धृतिशालिपार्थ- कृतस्तुतिम्।
कुम्भकर्णभुजाभुजङ्ग- विकर्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम्।
केतकीकरवीरजाति- सुगन्धिमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुच- कुङ्कुमारुणवक्षसम्।
देवदेवमशेषभूतमनोहरं जगतां पतिं
दासभूतभयापहं प्रणमामि राघवकुञ्जरम्।
यागदानसमाधिहोम- जपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निश- मादरेण सुपूजितम्।
ताटकावधहेतुमङ्गद- तातवालिनिषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम्।
लीलया खरदूषणादिनिशा- चराशुविनाशनं
रावणान्तकमच्युतं हरियूथकोटिगणाश्रयम्।
नीरजानन- मम्बुजाङ्घ्रियुगं हरिं भुवनाश्रयं
देवकार्यविचक्षणं प्रणमामि राघवकुञ्जरम्।
कौशिकेन सुशिक्षितास्त्रकलाप- मायतलोचनं
चारुहासमनाथ- बन्धुमशेषलोक- निवासिनम्।
वासवादिसुरारि- रावणशासनं च पराङ्गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम्।
राघवाष्टकमिष्टसिद्धि- दमच्युताश्रयसाधकं
मुक्तिभुक्तिफलप्रदं धनधान्यसिद्धिविवर्धनम्।
रामचन्द्रकृपाकटाक्ष- दमादरेण सदा जपेद्
रामचन्द्रपदाम्बुज- द्वयसन्ततार्पितमानसः।
राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते।