ॐ श्रीहनुमानुवाच।
तिरश्चामपि राजेति समवायं समीयुषाम्।
यथा सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम्।
सकृदेव प्रपन्नाय विशिष्टायैव यत् प्रियम्।
विभीषणायाब्धितटे यस्तं वीरं नमाम्यहम्।
यो महान् पूजितो व्यापी महाब्धेः करुणामृतम्।
स्तुतं जटायुना येन महाविष्णुं नमाम्यहम्।
तेजसाऽऽप्यायिता यस्य ज्वलन्ति ज्वलनादयः।
प्रकाशते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम्।
सर्वतोमुखता येन लीलया दर्शिता रणे।
राक्षसेश्वरयोधानां तं वन्दे सर्वतोमुखम्।
नृभावं तु प्रपन्नानां हिनस्ति च यथा नृषु।
सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम्।
यस्माद्बिभ्यति वातार्कज्वलेन्द्राः समृत्यवः।
भियं धिनोति पापानां भीषणं तं नमाम्यहम्।
परस्य योग्यतापेक्षारहितो नित्यमङ्गलम्।
ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम्।
यो मृत्युं निजदासानां मारयत्यखिलेष्टदः।
तत्रोदाहृतयो बह्व्यो मृत्युमृत्युं नमाम्यहम्।
यत्पादपद्मप्रणतो भवेदुत्तमपूरुषः।
तमीशं सर्वदेवानां नमनीयं नमाम्यहम्।
आत्मभावं समुत्क्षिप्य दास्येनैव रघूत्तमम्।
भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्णम्।
नित्यं श्रीरामभक्तस्य किङ्करा यमकिङ्कराः।
शिवमय्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः।
इदं हनूमता प्रोक्तं मन्त्रराजात्मकं स्तवम्।
पठेदनुदिनं यस्तु स रामे भक्तिमान् भवेत्।