सुधातुल्यजलैर्युक्ता यत्र सरः सरिद्वराः ।
तस्यै सरःसरिद्वत्यै मिथिलायै सुमङ्गलम् ॥
यत्रोद्यानानि शोभन्ते वृक्षैः सफलपुष्पकैः ।
तस्यै चोद्यानयुक्तायै मिथिलायै सुमङ्गलम् ॥
यत्र दार्शनिका जाता श्रीमद्बोधायनादयः ।
तस्यै विद्वद्विशिष्टायै मिथिलायै सुमङ्गलम् ॥
यस्यां पुर्यामुदूढा च रामेण जनकात्मजा ।
तस्यै महोत्सवाढ्यायै मिथिलायै सुमङ्गलम् ॥
सीतारामपदस्पर्शात् पुण्यशीला च यत्क्षितिः ।
तस्यै च पापापहारिण्यै मिथिलायै सुमङ्गलम् ॥
जानकीजन्मभूमिर्या भक्तिदा मुक्तिदा तथा ।
तस्यै महाप्रभावायै मिथिलायै सुमङ्गलम् ॥