आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।
द्विषदां कालदण्डं च रामचन्द्रं नमाम्यहम्।
नमः कोदण्डहस्ताय सन्धीकृतशराय च।
खण्डिताखिलदैत्याय रामायापन्निवारिणे।
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ।
सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः।
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः।
सुंदरेश्वर स्तोत्र
श्रीपाण्ड्यवंशमहितं शिवराजराजं भक्तैकचित्तरजनं करुणाप्रपूर्णम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। आह्लाददानविभवं भवभूतियुक्तं त्रैलोक्यकर्मविहितं विहितार्थदानम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। अ
Click here to know more..गणेश पंचरत्न स्तोत्र
मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम्। अनायकैकनायकं
Click here to know more..व्यासजी के नारद मुनि के प्रति संदेह पूछना