विश्वेशमादित्यसमप्रकाशं
पृषत्कचापे करयोर्दधानम्।
सदा हि साकेतपुरप्रदीप-
मानन्दवर्धं प्रणमामि रामम्।
नानागुणैर्भूषितमादिदेवं
दिव्यस्वरूपं विमलं मनोज्ञम्।
आपत्सु रक्षाकरमीशचाप-
भङ्गं सुसङ्गं प्रणमामि रामम्।
सीतापतिं सर्वनतं विनीतं
सर्वस्वदातारमनन्तकीर्तिम्।
सिद्धैः सुयुक्तं सुरसिद्धिदान-
कर्तारमीशं प्रणमामि रामम्।
शुभप्रदं दाशरथं स्वयंभुं
दशास्यहन्तारमुरं सुरेड्यम्।
कटाक्षदृष्ट्या करुणार्द्रवृष्टि-
प्रवर्षणं तं प्रणमामि रामम्।
मुदाकरं मोदविधानहेतुं
दुःस्वप्नदाहीकरधूमकेतुम्।
विश्वप्रियं विश्वविधूतवन्द्य-
पदाम्बुजं तं प्रणमामि रामम्।
रामस्य पाठं सततं स्तुतेर्यः
करोति भूतिं करुणां सुरम्याम्।
प्राप्नोति सिद्धिं विमलां च कीर्ति-
मायुर्धनं वंशबले गुणं च।
गजानन नामावलि स्तोत्र
ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः।ॐ गणञ्जयो गणपतिर्हेर....
Click here to know more..नटराज स्तुति
सदञ्चितमुदञ्चित- निकुञ्चितपदं झलझलञ्चलित- मञ्जुकटकं पत....
Click here to know more..पद्म पुराण
वेन ने कहा - भगवन् ! आपने सब तीर्थोंमें उत्तम ' भार्या-तीर्थ....
Click here to know more..