वीताखिलविषयच्छेदं जातानन्दाश्रु- पुलकमत्यच्छम्।
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम्।
तरुणारुणमुखकमलं करुणारसपूर- पूरितापाङ्गम्।
सञ्जीवनमाशासे मञ्जुलमहिमान- मञ्जनाभाग्यम्।
शम्बरवैरिशरातिग- मम्बुजदलविपुल- लोचनोदारम्।
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठ- मेकमवलम्बे।
दूरीकृतसीतार्तिः प्रकटीकृतराम- वैभवस्फूर्तिः।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः।
वानरनिकराध्यक्षं दानवकुलकुमुद- रविकरसदृक्षम्।
दीनजनावनदीक्षं पवनतपःपाक- पुञ्जमद्राक्षम्।
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्।
चिरमिह निखिलान् भोगान् भुङ्क्त्वा श्रीरामभक्तिभाग् भवति।
वेंकटेश मंगल अष्टक स्तोत्र
जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः तार्क्ष्....
Click here to know more..चिदंबरेश स्तोत्र
ब्रह्ममुखामरवन्दितलिङ्गं जन्मजरामरणान्तकलिङ्गम्। कर....
Click here to know more..कठोपनिषद - भाग ५१