प्रसन्नमानसं मुदा जितेन्द्रियं
चतुष्करं गदाधरं कृतिप्रियम्।
विदं च केसरीसुतं दृढव्रतं
भजे सदाऽनिलात्मजं सुरार्चितम्।
अभीप्सितैक- रामनामकीर्तनं
स्वभक्तयूथ- चित्तपद्मभास्करम्।
समस्तरोगनाशकं मनोजवं
भजे सदाऽनिलात्मजं सुरार्चितम्।
महत्पराक्रमं वरिष्ठमक्षयं
कवित्वशक्ति- दानमेकमुत्तमम्।
महाशयं वरं च वायुवाहनं
भजे सदाऽनिलात्मजं सुरार्चितम्।
गुणाश्रयं परात्परं निरीश्वरं
कलामनीषिणं च वानरेश्वरम्।
ऋणत्रयापहं परं पुरातनं
भजे सदाऽनिलात्मजं सुरार्चितम्।
ललिता अष्टक स्तोत्र
राधामुकुन्दपद- सम्भवघर्मबिन्दु निर्मञ्छनोपकरणी- कृतदे....
Click here to know more..द्वादश ज्योतिर्लिंग भुजंग स्तोत्र
सुशान्तं नितान्तं गुणातीतरूपं शरण्यं प्रभुं सर्वलोकाध....
Click here to know more..महालक्ष्मी देवी से सम्पत्ति मांगकर प्रार्थना