ॐ श्री पञ्चवदनायाञ्जनेयाय नमः .
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः .
गायत्रीछन्दः .
पञ्चमुखविराट् हनुमान्देवता .
ह्रीं बीजं .
श्रीं शक्तिः .
क्रौं कीलकं .
क्रूं कवचं .
क्रैं अस्त्राय फट् .
इति दिग्बन्धः .
श्री गरुड उवाच .
अथ ध्यानं प्रवक्ष्यामि शृणुसर्वांगसुन्दरि .
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियं .. 1..
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतं .
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदं .. 2..
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभं .
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणं .. 3..
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतं .
अत्युग्रतेजोवपुषं भीषणं भयनाशनं .. 4..
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलं ..
सर्वनागप्रशमनं विषभूतादिकृन्तनं .. 5..
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमं .
पातालसिंहवेताल ज्वररोगादि कृन्तनं .. 6..
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परं .
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरं .. 7..
जघान शरणं तत्स्यात्सर्वशत्रुहरं परं .
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिं .. 8..
खड्गं त्रिशूलं खट्वांगं पाशमङ्कुशपर्वतं .
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं .. 9..
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवं .
एतान्यायुधजालानि धारयन्तं भजाम्यहं .. 10..
प्रेतासनोपविष्टं तं सर्वाभरणभूषितं .
दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनं .. 11..
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखं .
पञ्चास्यमच्युतमनेक विचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम .
पीतांबरादि मुकुटैरुपशोभितांगं
पिंगाक्षमाद्यमनिशं मनसा स्मरामि .. 12..
मर्कटेशं महोत्साहं सर्वशत्रुहरं परं .
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर .. 13..
ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले .
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता .. 14..
ॐ हरिमर्कटाय स्वाहा .
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय
सकलशत्रुसंहारकाय स्वाहा .
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय
नरसिंहाय सकलभूतप्रमथनाय स्वाहा .
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय
सकलविषहराय स्वाहा .
ॐ नमो भगवते पञ्चवदनायोत्तर मुखायादिवराहाय
सकलसम्पत्कराय स्वाहा .
ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय
सकलजनवशङ्कराय स्वाहा .
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र
ऋषिः . अनुष्टुप्छन्दः . पञ्चमुखवीरहनुमान् देवता .
हनुमानिति बीजं . वायुपुत्र इति शक्तिः . अञ्जनासुत इति कीलकं .
श्रीरामदूतहनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः .
इति ऋष्यादिकं विन्यसेत् ..
ॐ अञ्जनासुताय अंगुष्ठाभ्यां नमः .
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः .
ॐ वायुपुत्राय मध्यमाभ्यां नमः .
ॐ अग्निगर्भाय अनामिकाभ्यां नमः .
ॐ रामदूताय कनिष्ठिकाभ्यां नमः .
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः .
इति करन्यासः ..
ॐ अञ्जनासुताय हृदयाय नमः .
ॐ रुद्रमूर्तये शिरसे स्वाहा .
ॐ वायुपुत्राय शिखायै वषट् .
ॐ अग्निगर्भाय कवचाय हुं .
ॐ रामदूताय नेत्रत्रयाय वौषट् .
ॐ पञ्चमुखहनुमते अस्त्राय फट् .
पञ्चमुखहनुमते स्वाहा .
इति दिग्बन्धः ..
अथ ध्यानं .
वन्दे वानरनारसिंह खगराट्क्रोडाश्व वक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा .
हस्ताब्जैरसि खेटपुस्तकसुधा कुंभाङ्कुशाद्रिं हलं
खट्वांगं फणिभूरुहं दशभुजं सर्वारिवीरापहं .
अथ मन्त्रः .
ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय
सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय
फाल्गुनसखाय कोलाहल सकलब्रह्माण्ड विश्वरूपाय
सप्तसमुद्रनिर्लंघनाय पिंगलनयनायामितविक्रमाय
सूर्यबिंबफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय
सञ्जीविनी सञ्जीवितांगद लक्ष्मणमहाकपि सैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित-
रामवरप्रदाय षट्प्रयोगागमपञ्चमुख वीरहनुमन्मन्त्रजपे विनियोगः .
ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा .
ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा .
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा .
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षित सकलसम्पत्कराय स्वाहा .
ॐ हरिमर्कटमर्कटाय धन्धन्धन्धन्धं शत्रुस्तंभनाय स्वाहा .
ॐ टण्टण्टण्टण्टं कूर्ममूर्तये पञ्चमुखवीरहनुमते
परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा .
ॐ कंखंगंघंङं चञ्छञ्जंझंञं टण्ठण्डण्ढंणं
तन्थन्दन्धंनं पंफंबंभंमं यंरंलंवं शंषंसंहं
ळङ्क्षं स्वाहा .
इति दिग्बन्धः .
ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टण्टण्टण्टण्टं
सकलशत्रुसंहरणाय स्वाहा .
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा .
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं
सकलविषहराय स्वाहा .
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये
पञ्चमुखहनुमते स्वाहा .
ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये
सकलप्रयोजननिर्वाहकाय स्वाहा .
ॐ अञ्जनासुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय
श्रीरामचन्द्रकृपा पादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय
कामदाय पञ्चमुखवीरहनुमते स्वाहा .
भूतप्रेतपिशाच ब्रह्मराक्षस शाकिनीडाकिन्यन्तरिक्ष ग्रह-
परयन्त्र परतन्त्रोच्चाटनाय स्वाहा .
सकलप्रयोजन निर्वाहकाय पञ्चमुखवीरहनुमते
श्रीरामचन्द्र वरप्रसादाय जञ्जञ्जञ्जञ्जं स्वाहा .
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः .
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणं .. 15..
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनं .
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभं .. 16..
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणं .
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करं .. 17..
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करं .
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकं .. 18..
अष्टवारं पठेन्नित्यमिष्टकामार्थ सिद्धिदं .
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् .. 19..
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनं .
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवं .. 20..
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः .
कवचस्मरणेनैव महाबलमवाप्नुयात् .. 21..
सरस्वती भुजंग स्तोत्र
सदा भावयेऽहं प्रसादेन यस्याः पुमांसो जडाः सन्ति लोकैकन....
Click here to know more..कवित्व दायक सरस्वती स्तोत्र
शारदां श्वेतवर्णां च शुभ्रवस्त्रसमन्विताम् । कमलासनसं....
Click here to know more..सुरक्षा कवच मंत्र
सोने से पहले अपनी चारों ओर इस मंत्र को बोलकर रेखा खींचें ।....
Click here to know more..