श्रीरामपादसरसी- रुहभृङ्गराज-
संसारवार्धि- पतितोद्धरणावतार।
दोःसाध्यराज्यधन- योषिददभ्रबुद्धे
पञ्चाननेश मम देहि करावलम्बम्।
आप्रातरात्रिशकुनाथ- निकेतनालि-
सञ्चारकृत्य पटुपादयुगस्य नित्यम्।
मानाथसेविजन- सङ्गमनिष्कृतं नः
पञ्चाननेश मम देहि करावलम्बम्।
षड्वर्गवैरिसुख- कृद्भवदुर्गुहाया-
मज्ञानगाढतिमिराति- भयप्रदायाम्।
कर्मानिलेन विनिवेशितदेहधर्तुः
पञ्चाननेश मम देहि करावलम्बम्।
सच्छास्त्रवार्धिपरि- मज्जनशुद्धचित्ता-
स्त्वत्पादपद्मपरि- चिन्तनमोदसान्द्राः।
पश्यन्ति नो विषयदूषितमानसं मां
पञ्चाननेश मम देहि करावलम्बम्।
पञ्चेन्द्रियार्जित- महाखिलपापकर्मा
शक्तो न भोक्तुमिव दीनजनो दयालो।
अत्यन्तदुष्टमनसो दृढनष्टदृष्टेः
पञ्चाननेश मम देहि करावलम्बम्।
इत्थं शुभं भजकवेङ्कट- पण्डितेन
पञ्चाननस्य रचितं खलु पञ्चरत्नम्।
यः पापठीति सततं परिशुद्धभक्त्या
सन्तुष्टिमेति भगवानखिलेष्टदायी।
गणपति पंचक स्तोत्र
गणेशमजरामरं प्रखरतीक्ष्णदंष्ट्रं सुरं बृहत्तनुमनामयं विविधलोकराजं परम्। शिवस्य सुतसत्तमं विकटवक्रतुण्डं भृशं भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्। कुमारगुरुमन्नदं ननु कृपासुवर्षाम्बुदं विनायकमकल्मषं सुरजनाऽऽनताङ्घ्रिद्वयम्। सुरप्रमदकारणं बुधवरं च भीमं भृश
Click here to know more..लक्ष्मी अष्टक स्तोत्र
यस्याः कटाक्षमात्रेण ब्रह्मरुद्रेन्द्रपूर्वकाः। सुराः स्वीयपदान्यापुः सा लक्ष्मीर्मे प्रसीदतु। याऽनादिकालतो मुक्ता सर्वदोषविवर्जिता। अनाद्यनुग्रहाद्विष्णोः सा लक्ष्मी प्रसीदतु। देशतः कालतश्चैव समव्याप्ता च तेन या। तथाऽप्यनुगुणा विष्णोः सा लक्ष्मीर्मे प्रस
Click here to know more..श्रीमद्भागवत और अन्य मार्गों में भेद क्या है?
श्रीमद्भागवत और अन्य मार्गों में भेद क्या है? जानिए
Click here to know more..