भास्कर अष्टक स्तोत्र

श्रीपद्मिनीशमरुणोज्ज्वलकान्तिमन्तं
मौनीन्द्रवृन्दसुरवन्दितपादपद्मम्।
नीरेजसम्भवमुकुन्दशिवस्वरूपं
श्रीभास्करं भुवनबान्धवमाश्रयामि
मार्ताण्डमीशमखिलात्मकमंशुमन्त-
मानन्दरूपमणिमादिकसिद्धिदं च।
आद्यन्तमध्यरहितं च शिवप्रदं त्वां
श्रीभास्करं नतजनाश्रयमाश्रयामि।
सप्ताश्वमभ्रमणिमाश्रितपारिजातं
जाम्बूनदाभमतिनिर्मलदृष्टिदं च।
दिव्याम्बराभरणभूषितचारुमूर्तिं
श्रीभास्करं ग्रहगणाधिपमाश्रयामि।
पापार्तिरोगभयदुःखहरं शरण्यं
संसारगाढतमसागरतारकं च।
हंसात्मकं निगमवेद्यमहस्करं त्वां
श्रीभास्करं कमलबान्धवमाश्रयामि।
प्रत्यक्षदैवमचलात्मकमच्युतं च
भक्तप्रियं सकलसाक्षिणमप्रमेयम्।
सर्वात्मकं सकललोकहरं प्रसन्नं
श्रीभास्करं जगदधीश्वरमाश्रयामि।
ज्योतिस्वरूपमघसञ्चयनाशकं च
तापत्रयान्तकमनन्तसुखप्रदं च।
कालात्मकं ग्रहगणेन सुसेवितं च
श्रीभास्करं भुवनरक्षकमाश्रयामि।
सृष्टिस्थितिप्रलयकारणमीश्वरं च
दृष्टिप्रदं परमतुष्टिदमाश्रितानाम्।
इष्टार्थदं सकलकष्टनिवारकं च
श्रीभास्करं मृगपतीश्वरमाश्रयामि।
आदित्यमार्तजनरक्षकमव्ययं च
छायाधवं कनकरेतसमग्निगर्भम्।
सूर्यं कृपालुमखिलाश्रयमादिदेवं
लक्ष्मीनृसिंहकविपालकमाश्रयामि।
श्रीभास्कराष्टकमिदं परमं पवित्रं
यत्र श्रुतं च पठितं सततं स्मृतं च।
तत्र स्थिराणि कमलाप्तकृपाविलासै-
र्दीर्घायुरर्थबलवीर्यसुतादिकानि।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |