रवि अष्टक स्तोत्र

उदयाद्रिमस्तकमहामणिं लसत्-
कमलाकरैकसुहृदं महौजसम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
तिमिरापहारनिरतं निरामयं
निजरागरञ्जितजगत्त्रयं विभुम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
दिनरात्रिभेदकरमद्भुतं परं
सुरवृन्दसंस्तुतचरित्रमव्ययम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
श्रुतिसारपारमजरामयं परं
रमणीयविग्रहमुदग्ररोचिषम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
शुकपक्षतुण्डसदृशाश्वमण्डलम्
अचलावरोहपरिगीतसाहसम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
श्रुतितत्त्वगम्यमखिलाक्षिगोचरं
जगदेकदीपमुदयास्तरागिणम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
श्रितभक्तवत्सलमशेषकल्मष-
क्षयहेतुमक्षयफलप्रदायिनम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
अहमन्वहं सतुरगक्षताटवी-
शतकोटिहालकमहामहीधनम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्।
इति सौरमष्टकमहर्मुखे रविं
प्रणिपत्य यः पठति भक्तितो नरः।
स विमुच्यते सकलरोगकल्मषैः
सवितुः समीपमपि सम्यगाप्नुयात्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies