भास्वान् मे भासयेत् तत्त्वं चन्द्रश्चाह्लादकृद्भवेत्।
मङ्गलो मङ्गलं दद्याद् बुधश्च बुधतां दिशेत्।
गुरुर्मे गुरुतां दद्यात् कविश्च कवितां दिशेत्।
शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत्।
राहुर्मे राहयेद्रोगं ग्रहाः सन्तु करग्रहाः।
नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्रहाः।
शने दिनमणेः सूनो स्वनेकगुणसन्मणे।
अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम्।
हरेरनुग्रहार्थाय शत्रूणां निग्रहाय च।
वादिराजयतिप्रोक्तं ग्रहस्तोत्रं सदा पठेत्।