जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्|
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्|
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्|
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्|
देवानाञ्च ऋषीणाञ्च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्|
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्|
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम्|
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्|
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्|
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति|
नरनारीनृपाणां च भवेद् दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्|
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः|
कालभैरव अष्टक स्तोत्र
वराजसेव्यमान- पावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रबिन्दुशेखरं कृपाकरम्। नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथ- कालभैरवं भजे। भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थ- दायकं त्रिलोचनम्। कालकालमम्बुजाक्ष- मक्षशूलमक्षरं काशिकापुराधिनाथ- काल
Click here to know more..नटराज स्तुति
सदञ्चितमुदञ्चित- निकुञ्चितपदं झलझलञ्चलित- मञ्जुकटकं पतञ्जलिदृगञ्जन- मनञ्जनमचञ्चलपदं जननभञ्जनकरम्| कदम्बरुचिमम्बरवसं परममम्बुदकदम्ब- कविडम्बकगलं चिदम्बुधिमणिं बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भज| हरं त्रिपुरभञ्जनमनन्त- कृतकङ्कणमखण्ड- दयमन्तरहितं विरिञ्चिस
Click here to know more..रुरु की पत्नी की साँप काटने से मृत्यु होती है