नवग्रह मंगल स्तोत्र

भास्वान् काश्यपगोत्रजोऽरुणरुचिः सिंहाधिपोऽर्कः सुरो
गुर्विन्द्वोश्च कुजस्य मित्रमखिलस्वामी शुभः प्राङ्मुखः।
शत्रुर्भार्गवसौरयोः प्रियकुजः कालिङ्गदेशाधिपो
मध्ये वर्तुलपूर्वदिग्दिनकरः कुर्यात् सदा मङ्गलम्।
चन्द्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भव-
श्चात्रेयश्चतुरश्रवाऽरुणमुखो राकोडुपः शीतगुः।
षट्,सप्ताग्निदशैकशोभनफलो नोरिर्बुधार्कौ प्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात् सदा मङ्गलम्।
भौमो दक्षिणदिक्त्रिकोणयमदिग्विन्ध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्तु सुगुरुश्चार्कः शशी सौहृदः।
ज्ञोऽरिः षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात् सदा मङ्गलम्।
सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रिगोत्रोद्भवो
बाणेशानदिशः सुहृद्रविसुतः शान्तः सुतः शीतगोः।
कन्यायुग्मपतिर्दशाष्टचतुरः षण्णेत्रगः शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात् सदा मङ्गलम्।
जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्च सिन्धुजनितश्चापाधिपो मीनपः।
सूर्येन्दुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्तद्वे नवपञ्चमे शुभकरः कुर्यात् सदा मङ्गलम्।
शुक्रो भार्गवगोत्रजः सितरुचिः पूर्वम्मुखः पूर्वदिक्-
पाञ्चालो वृषपस्तुलाधिपमहाराष्ट्राधिपौदुम्बरः।
इन्द्राणीमघवा बुधश्च रविजो मित्रार्कचन्द्रावरी
षष्ठाकाशविवर्जितो भगुसुतः कुर्यात् सदा मङ्गलम्।
मन्दः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यपिः
स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रौ कुजेन्दू द्विषौ।
स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुर्धारकः
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात् सदा मङ्गलम्।
राहुः सिंहलदेशपोऽपि सतमः कृष्णाङ्गशूर्पासनो
यः पैठीनसगोत्रसम्भवसमिद्दूर्वो मुखाद्दक्षिणः।
यः सर्पः पशुदैवतोऽखिलगतः सूर्यग्रहे छादकः
षट्त्रिस्थः शुभकृच्च सिंहकसुतः कुर्यात् सदा मङ्गलम्।
केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणस्थित-
श्चित्राङ्कध्वजलाञ्छनो हि भगवान् यो दक्षिणाशामुखः।
ब्रह्मा चैव तु चित्रगुप्तपतिमान् प्रीत्याधिदेवः सदा
षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात् सदा मङ्गलम्।

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies