सहस्रनयनः सूर्यो रविः खेचरनायकः|
सप्ताश्ववाहनो देवो दिनेशः शरणं मम|
तुहिनांशुः शशाङ्कश्च शिवशेखरमण्डनः|
ओषधीशस्तमोहर्ता राकेशः शरणं मम|
महोग्रो महतां वन्द्यो महाभयनिवारकः|
महीसूनुर्महातेजा मङ्गलः शरणं मम|
अभीप्सितार्थदः शूरः सौम्यः सौम्यफलप्रदः|
पीतवस्त्रधरः पुण्यः सोमजः शरणं मम|
धर्मसंरक्षकः श्रेष्ठः सुधर्माधिपतिर्द्विजः|
सर्वशास्त्रविपश्चिच्च देवेज्यः शरणं मम|
समस्तदोषविच्छेदी कविकर्मविशारदः|
सर्वज्ञः करुणासिन्धु- र्दैत्येज्यः शरणं मम|
वज्रायुधधरः काकवाहनो वाञ्छितार्थदः|
क्रूरदृष्टिर्यमभ्राता रविजः शरणं मम|
सैंहिकेयोऽर्द्धकायश्च सर्पाकारः शुभङ्करः|
तमोरूपो विशालाक्ष असुरः शरणं मम|
दक्षिणाभिमुखः प्रीतः शुभो जैमिनिगोत्रजः|
शतरूपः सदाराध्यः सुकेतुः शरणं मम
नरसिंह द्वादश नाम स्तोत्र
अस्य श्रीनृसिंह द्वादशनाम स्तोत्रमहामन्त्रस्य वेदव्य....
Click here to know more..यमुना अष्टक स्तोत्र
मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्....
Click here to know more..तन्त्र शक्ति
वनस्पति तंत्र, एकाक्षि नारिकेल कल्प, रत्न धारण तंत्र, दक्....
Click here to know more..