शैलपुत्री स्तोत्र

हिमालय उवाच -
मातस्त्वं कृपया गृहे मम सुता जातासि नित्यापि
यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् ।
दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि
माहेशीं प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥

श्रीदेव्युवाच -
ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् ।
छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥

श्रीमहादेव उवाच -
इत्युक्त्वा तं गिरिश्रेष्ठं दत्त्वा विज्ञानमुत्तमम् ।
स्वरूपं दर्शयामास दिव्यं माहेश्वरं तदा ॥

शशिकोटिप्रभं चारुचन्द्रार्धकृतशेखरम् ।
त्रिशूलवर हस्तं च जटामण्डितमस्तकम् ॥

भयानकं घोररूपं कालानलसहस्रभम् ।
पञ्चवक्त्रं त्रिनेत्रं च नागयज्ञोपवीतिनम् ॥

द्वीपिचर्माम्बरधरं नागेन्द्रकृतभूषणम् ।
एवं विलोक्य तद्रूपं विस्मितो हिमवान् पुनः ॥

प्रोवाच वचनं माता रूपमन्यत्प्रदर्शय ।
ततः संहृत्य तद्रूपं दर्शयामास तत्क्षणात् ॥

रूपमन्यन्मुनिश्रेष्ठ विश्वरूपा सनातनी ।
शरच्चन्द्रनिभं चारुमुकुटोज्ज्वलमस्तकम् ॥

शङ्खचक्रगदापद्महस्तं नेत्रत्रयोज्ज्वलम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥

योगीन्द्रवृन्दसंवन्द्यं सुचारुचरणाम्बुजम् ।
सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥

दृष्ट्वा तदेतत्परमं रूपं स हिमवान् पुनः ।
प्रणम्य तनयां प्राह विस्मयोत्फुल्ललोचनः ॥

हिमालय उवाच -
मातस्तवेदं परमं रूपमैश्वरमुत्तमम् ।
विस्मितोऽस्मि समालोक्य रूपमन्यत्प्रदर्शय ॥

त्वं यस्य सो ह्यशोच्यो हि धन्यश्च परमेश्वरि ।
अनुगृह्णीष्व मातर्मां कृपया त्वां नमो नमः ॥

श्रीमहादेव उवाच -
इत्युक्ता सा तदा पित्रा शैलराजेन पार्वती ।
तद्रूपमपि संहृत्य दिव्यं रूपं समादधे ॥

नीलोत्पलदलश्यामं वनमालाविभूषितम् ।
शङ्खचक्रगदापद्ममभिव्यक्तं चतुर्भुजम् ॥

एवं विलोक्य तद्रूपं शैलानामधिपस्ततः ।
कृताञ्जलिपुटः स्थित्वा हर्षेण महता युतः ॥

स्तोत्रेणानेन तां देवीं तुष्टाव परमेश्वरीम् ।
सर्वदेवमयीमाद्यां ब्रह्मविष्णुशिवात्मिकाम् ॥

हिमालय उवाच -
मातः सर्वमयि प्रसीद परमे विश्वेशि विश्वाश्रये
त्वं सर्वं नहि किञ्चिदस्ति भुवने तत्त्वं त्वदन्यच्छिवे ।
त्वं विष्णुर्गिरिशस्त्वमेव नितरां धातासि शक्तिः परा
किं वर्ण्यं चरितं त्वचिन्त्यचरिते ब्रह्माद्यगम्यं मया ॥

त्वं स्वाहाखिलदेवतृप्तिजननी विश्वेशि त्वं वै स्वधा
पितॄणामपि तृप्तिकारणमसि त्वं देवदेवात्मिका ।
हव्यं कव्यमपि त्वमेव नियमो यज्ञस्तपो दक्षिणा
त्वं स्वर्गादिफलं समस्तफलदे देवेशि तुभ्यं नमः ॥

रूपं सूक्ष्मतमं परात्परतरं यद्योगिनो विद्यया
शुद्धं ब्रह्ममयं वदन्ति परमं मातः सुदृप्तं तव ।
वाचा दुर्विषयं मनोऽतिगमपि त्रैलोक्यबीजं शिवे
भक्त्याहं प्रणमामि देवि वरदे विश्वेश्वरि त्राहिमाम् ॥

उद्यत्सूर्यसहस्रभां मम गृहे जातां स्वयं लीलया
देवीमष्टभुजां विशालनयनां बालेन्दुमौलिं शिवाम् ।
उद्यत्कोटिशशाङ्ककान्तिनयनां बालां त्रिनेत्रां परां
भक्त्या त्वां प्रणमामि विश्वजननी देवि प्रसीदाम्बिके ॥

रूपं ते रजताद्रिकान्तिविमलं नागेन्द्रभूषोज्ज्वलं
घोरं पञ्चमुखाम्बुजत्रिनयनैईमैः समुद्भासितम् ।
चन्द्रार्धाङ्कितमस्तकं धृतजटाजूटं शरण्ये शिवे
भक्त्याहं प्रणमामि विश्वजननि त्वां त्वं प्रसीदाम्बिके ॥

रूपं ते शारदचन्द्रकोटिसदृशं दिव्याम्बरं शोभनं
दिव्यैराभरणैर्विराजितमलं कान्त्या जगन्मोहनम् ।
दिव्यैर्बाहुचतुष्टयैर्युतमहं वन्दे शिवे भक्तितः
पादाब्जं जननि प्रसीद निखिलब्रह्मादिदेवस्तुते ॥

रूपं ते नवनीरदद्युतिरुचिफुल्लाब्जनेत्रोज्ज्वलं,
कान्त्या विश्वविमोहनं स्मितमुखं रत्नाङ्गदैर्भूषितम् ।
विभ्राजद्वनमालयाविलसितोरस्कं जगत्तारिणि
भक्त्याहं प्रणतोऽस्मि देवि कृपया दुर्गे प्रसीदाम्बिके ॥

मातः कः परिवर्णितुं तव गुणं रूपं च विश्वात्मकं
शक्तो देवि जगत्रये बहुगुणैर्देवोऽथवा मानुषः ।
तत् किं स्वल्पमतिब्रवीमि करुणां कृत्वा स्वकीयै-
र्गुणैर्नो मां मोहय मायया परमया विश्वेशि तुभ्यं नमः ॥

अद्य मे सफलं जन्म तपश्च सफलं मम ।
यत्त्वं त्रिजगतां माता मत्पुत्रीत्वमुपागता ॥

धन्योऽहं कृतकृत्योऽहं मातस्त्व निजलीलया ।
नित्यापि मद्गृहे जाता पुत्रीभावेन वै यतः ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

50

Comments

ayct2

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |