कृष्ण चौराष्टक स्तोत्र

व्रजे प्रसिद्धं नवनीतचौरं
गोपाङ्गनानां च दुकूलचौरम् ।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
श्रीराधिकाया हृदयस्य चौरं
नवाम्बुदश्यामलकान्तिचौरम् ।
पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
अकिञ्चनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।
केनाप्यहो भीषणचौर ईदृग्-
दृष्टः श्रुतो वा न जगत्त्रयेऽपि ॥
यदीय नामापि हरत्यशेषं
गिरिप्रसारान् अपि पापराशीन् ।
आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि ॥
धनं च मानं च तथेन्द्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।
पलायसे कुत्र धृतोऽद्य चौर
त्वं भक्तिदाम्नासि मया निरुद्धः ॥
छिनत्सि घोरं यमपाशबन्धं
भिनत्सि भीमं भवपाशबन्धम् ।
छिनत्सि सर्वस्य समस्तबन्धं
नैवात्मनो भक्तकृतं तु बन्धम् ॥
मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।
लभस्व हे चौर हरे चिराय
स्वचौर्यदोषोचितमेव दण्डम् ॥
कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः सन् ।
त्वां कृष्ण हे प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर हृदयान् न हि मोचयामि ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |