उडुपी श्रीकृष्ण सुप्रभात स्तोत्र

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥

नारायणाखिलशरण्य रथाङ्गपाणे
प्राणायमानविजयागणितप्रभाव ।
गीर्वाणवैरिकदलीवनवारणेन्द्र
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ दीनपतितार्तजनानुकम्पिन्
उत्तिष्ठ विश्वरचनाचतुरैकशिल्पिन् ।
उत्तिष्ठ वैष्णवमतोद्भवधामवासिन्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ पातय कृपामसृणान् कटाक्षान्
उत्तिष्ठ दर्शय सुमङ्गलविग्रहन्ते ।
उत्तिष्ठ पालय जनान् शरणं प्रपन्नान्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ यादव मुकुन्द हरे मुरारे
उत्तिष्ठ कौरवकुलान्तक विश्वबन्धो ।
उत्तिष्ठ योगिजनमानसराजहंस
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ पद्मनिलयाप्रिय पद्मनाभ
पद्मोद्भवस्य जनकाच्युत पद्मनेत्र ।
उत्तिष्ठ पद्मसखमण्डलमध्यवर्तिन्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

मध्वाख्यया रजतपीठपुरेवतीर्ण-
स्त्वत्कार्यसाधनपटुः पवमानदेवः ।
मूर्तेश्चकार तव लोकगुरोः प्रतिष्ठां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

सन्यासयोगनिरताश्रवणादिभिस्त्वां
भक्तेर्गुणैर्नवभिरात्मनिवेदनान्तैः ।
अष्टौ यजन्ति यतिनो जगतामधीशं
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

या द्वारकापुरि पुरा तव दिव्यमूर्तिः
सम्पूजिताष्टमहिषीभिरनन्यभक्त्या ।
अद्यार्चयन्ति यतयोष्टमठाधिपास्तां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

वामे करे मथनदण्डमसव्यहस्ते
गृह्णंश्च पाशमुपदेष्टुमना इवासि ।
गोपालनं सुखकरं कुरुतेति लोकान्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

सम्मोहिताखिलचराचररूप विश्व-
श्रोत्राभिराममुरलीमधुरारवेण ।
आधायवादयकरेण पुनश्चवेणुं
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

गीतोष्णरश्मिरुदयन्वहनोदयाद्रौ
यस्याहरत्सकललोकहृदान्धकारम् ।
सत्वं स्थितो रजतपीठपुरे विभासि
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

कृष्णेति मङ्गलपदं कृकवाकुवृन्दं
वक्तुं प्रयत्य विफलं बहुशः कुकूकुः ।
त्वां सम्प्रबोधयितुमुच्चरतीति मन्ये
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

भृङ्गापिपासव इमे मधु पद्मषन्दे
कृष्णार्पणं सुमरसोस्विति हर्षभाजः ।
झङ्काररावमिषतः कथयन्ति मन्ये
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

निर्यान्ति शावकवियोगयुता विहङ्गाः
प्रीत्यार्भकेशु च पुनः प्रविशन्ति नीडम् ।
धावन्ति सस्य कणिकानुपचेतुमारान्-
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

भूत्वातिथिः सुमनसामनिलः सुगन्धं
सङ्गृह्य वाति जनयन् प्रमदं जनानाम् ।
विश्वात्मनोर्चनधिया तव मुञ्च निद्रां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

तारालिमौक्तिकविभूषणमण्डिताङ्गी
प्राचीदुकूलमरुणं रुचिरं दधान ।
खेसौखसुप्तिकवधूरिव दृश्यतेद्य
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

आलोक्य देहसुषमां तव तारकालि-
र्ह्रीणाक्रमेण समुपेत्य विवर्णभावम् ।
अन्तर्हिते वनचिरात् त्यज शेषशय्यां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

साध्वीकराब्जवलयध्वनिनासमेतो
गानध्वनिः सुदधिमन्थनघोषपुष्टः ।
संश्रूयते प्रतिग्रहं रजनी विनष्टा
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

भास्वानुदेष्यति हिमांशुरभूद्गतश्रीः
पूर्वां दिशामरुणयन् समुपैत्यनूरुः ।
आशाः प्रसाद सुभगाश्च गतत्रियामा
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

आदित्यचन्द्रधरणीसुतरौहिणेय-
जीवोशनःशनिविधुन्तुदकेतवस्ते ।
दासानुदासपरिचारकभृत्यभृत्या
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

इन्द्राग्निदण्डधरनिर्ऋतिपाशिवायु-
वित्तेशभूतपतयो हरितामधीशाः ।
आराधयन्ति पदवीच्युतिशङ्कया त्वां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

वीणां सती कमलजस्य करे दधाना
तन्त्र्यागलस्य चरवे कलयन्त्यभेदम् ।
विश्वं निमज्जयति गानसुधारसाब्धौ
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

देवर्षिरम्बरतलादवनीं प्रपन्न-
स्त्वत्सन्निधौ मधुरवादितचारुवीणा ।
नामानि गायति नतस्फुरितोत्तमाङ्गो
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

वातात्मजः प्रणतकल्पतरुर्हनूमान्
द्वारे कृताञ्जलिपुटस्तवदर्शनार्थी ।
तिष्ठत्यमुं कुरुकृतार्थमपेत निद्रां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

सर्वोत्तमो हरिरिति श्रुतिवाक्यवृन्दै-
श्चन्द्रेश्वरद्विरदवक्त्रषडाननाद्याः ।
उद्घोशयन्त्यनिमिषा रजनीं प्रभाते
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

मध्वाभिदे सरसि पुण्यजले प्रभाते
गङ्गाम्भसर्वमघमाशु हरेति जप्त्वा ।
मज्जन्ति वैदिकशिखामणयो यथावन्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

द्वारे मिलन्ति निगमान्तविदस्त्रयीज्ञा
मीमांसकाः पदविदोनयदर्शनज्ञाः ।
गान्धर्ववेदकुशलाश्च तवेक्षणार्थं
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

श्रीमध्वयोगिवरवन्दितपादपद्म
भैष्मीमुखाम्बुरुहभास्कर विश्ववन्द्य ।
दासाग्रगण्यकनकादिनुतप्रभाव
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

पर्यायपीठमधिरुह्य मठाधिपास्त्वा-
मष्टौ भजन्ति विधिवत् सततं यतीन्द्राः ।
श्रीवादिराजनियमान् परिपालयन्तो
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

श्रीमन्ननन्तशयनोडुपिवास शौरे
पूर्णप्रबोध हृदयाम्बरशीतरश्मे ।
लक्ष्मीनिवास पुरुषोत्तम पूर्णकाम
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

श्रीप्राणनाथ करुणावरुणालयार्त
सन्त्राणशौन्द रमणीयगुणप्रपूर्ण ।
सङ्कर्षणानुज फणीन्द्रफणावितान
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

आनन्दतुन्दिल पुरन्दर पूर्वदास-
वृन्दाभिवन्दित पदाम्बुजनन्दसूनो ।
गोविन्द मन्दरगिरीन्द्र धराम्बुदाभ
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

गोपाल गोपललनाकुलरासलीला-
लोलाभ्रनीलकमलेश कृपालवाल ।
कालीयमौलिविलसन्मणिरञ्जिताङ्घ्रे
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

कृष्णस्य मङ्गलनिधेर्भुवि सुप्रभातं
येहर्मुखे प्रतिदिनं मनुजाः पठन्ति ।
विन्दन्ति ते सकलवाञ्छितसिद्धिमाशु
ज्ञानञ्च मुक्तिसुलभं परमं लभन्ते ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |