कृष्ण वरद स्तुति

परमानन्दसर्वस्वं पाशुपाल्यपरिष्कृतं
चिरमास्वादयन्ती मे जृम्यतां चेतसि स्थितिः ।
दूरदूरमुपारुह्य पततामपि चान्तरा
सकृदाक्रन्दनेनैव वरदः करदो भवेत् ॥

मम चेतसि माद्यतो मुरारेः
मधुरस्मेरमुपाध्वमाननेन्दुम् ।
कमनीयतनोः कटाक्षलक्ष्मीं
कन्ययापि प्रणतेषु कामधेनोः ॥

वरदस्य वयं कटाक्षलक्ष्मीं
वरयामः परमेण चापलेन ।
सकृदप्युपगम्य सम्मुखं
सहसा वर्षति योषितोऽपि कामम् ॥

जृम्भतां वो हृदये जगत्त्त्रयीसुन्दराः कटाक्षभराः ।
अम्भोदान् गगनचरानाह्वयमानस्य बालस्य ॥

जृम्भन्तां वः करिगिरिजुषः कटाक्षच्छटा विभोर्मनसि ।
अम्भोधरमधःकृत्वा हर्षात्स्वैरं शयानस्य ॥

ब्रजजनवनितामदान्धकेलि-
कलहकटाक्षावलक्षविभ्रमो वः ।
विहरतु हृदये विलाससिन्धु-
र्मुहुरबिलङ्गितमुग्धशैशवश्रीः ॥

वरवितरणकेलिधन्यधन्या
मधुरतराः करुणाकटाक्षलक्ष्म्याः ।
करिगिरिसुकृताङ्कुरस्य कस्या-
भिनववारिवहस्य विभ्रतां वः ॥

इत्यष्टकं पुष्टरसानुबन्धं
विनोदगोष्ठीसमये वियुङ्क्ताम् ।
व्रजाङ्गनानां कुचयोः करीन्द्र-
शैलस्य मौलौ च मुहुर्विहर्ता ॥

श्रीकृष्णलीलाशुकवाङ्मयीभि-
रेवंविधाभिर्विबुधाहताभिः ।
पुष्णन्तु धन्याः पुनरुक्तहर्ष-
मायूंषि पीयूषतरङ्गिणीभिः ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |