मुरारि स्तुति

इन्दीवराखिल- समानविशालनेत्रो
हेमाद्रिशीर्षमुकुटः कलितैकदेवः।
आलेपितामल- मनोभवचन्दनाङ्गो
भूतिं करोतु मम भूमिभवो मुरारिः।
सत्यप्रियः सुरवरः कविताप्रवीणः
शक्रादिवन्दितसुरः कमनीयकान्तिः।
पुण्याकृतिः सुवसुदेवसुतः कलिघ्नो
भूतिं करोतु मम भूमिभवो मुरारिः।
नानाप्रकारकृत- भूषणकण्ठदेशो
लक्ष्मीपतिर्जन- मनोहरदानशीलः।
यज्ञस्वरूपपरमाक्षर- विग्रहाख्यो
भूतिं करोतु मम भूमिभवो मुरारिः।
भीष्मस्तुतो भवभयापहकार्यकर्ता
प्रह्लादभक्तवरदः सुलभोऽप्रमेयः।
सद्विप्रभूमनुज- वन्द्यरमाकलत्रो
भूतिं करोतु मम भूमिभवो मुरारिः।
नारायणो मधुरिपुर्जनचित्तसंस्थः
सर्वात्मगोचरबुधो जगदेकनाथः।
तृप्तिप्रदस्तरुण- मूर्तिरुदारचित्तो
भूतिं करोतु मम भूमिभवो मुरारिः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |