वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्।
अतसीपुष्पसङ्काशं हारनूपुरशोभितम्।
रत्नकङ्कणकेयूरं कृष्णं वन्दे जगद्गुरुम्।
कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम्।
विलसत्कुन्डलधरं कृष्णं वन्दे जगद्गुरुम्।
मन्दारगन्धसंयुक्तं चारुहासं चतुर्भुजम्।
बर्हिपिञ्छावचूडाङ्गं कृष्णं वन्दे जगद्गुरुम्।
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्।
यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम्।
रुक्मिणीकेलिसंयुक्तं पीताम्बरसुशोभितम्।
अवाप्ततुलसीगन्धं कृष्णं वन्दे जगद्गुरुम्।
गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम्।
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम्।
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्।
शङ्खचक्रधरं देवं कृष्णं वन्दे जगद्गुरुम्।
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत्।
कोटिजन्मकृतं पापं स्मरणेन विनश्यति।
नटराज स्तोत्र
ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदा ह्रीणाना शिवकीर्तने हितकरं हेलाहृदा मानिनाम्। होबेरादिसुगन्ध- वस्तुरुचिरं हेमाद्रिबाणासनं ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे। श्रीमज्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृति श्रीवाणीविनुतापदाननिचयं श्रीव
Click here to know more..राम कवच
अथ श्रीरामकवचम्। अस्य श्रीरामरक्षाकवचस्य। बुधकौशिकर्षिः। अनुष्टुप्-छन्दः। श्रीसीतारामचन्द्रो देवता। सीता शक्तिः। हनूमान् कीलकम्। श्रीमद्रामचन्द्रप्रीत्यर्थे जपे विनियोगः। ध्यानम्। ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धि
Click here to know more..विष्णु सहस्त्रनाम - अर्थ सहित
युधिष्टिरने यही पांच प्रश्न किये १ कौन एक बड़ा देवता है२ कौन प्राप्त होने लायक है किसकी पूजा और स्तुति करने से आदमीका भला होता है ४ सब धर्मो में आपके परममत से क
Click here to know more..