सुब्रह्मण्य ध्यान स्तोत्र

षडाननं कुङ्कुमरक्तवर्णं
महामतिं दिव्यमयूरवाहनम्।
रुद्रस्यसूनुं सुरसैन्यनाथं
गुहं सदाऽहं शरणं प्रपद्ये।
कनककुण्डलमण्डितषण्मुखं
कनकराजिविराजितलोचनम्।
निशितशस्त्रशरासनधारिणं
शरवणोत्भवमीशसुतं भजे।
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि-
र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्यसौख्यप्रदम्।
अम्भोजाभयशक्ति कुक्कुटधरं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसंसिद्धिदम्।
वन्दे शक्तिधरं शिवात्मतनयं वन्दे पुलिन्दापतिं
वन्दे भानुसहस्रमद्बुदनिभं वन्दे मयूरासनम्।
वन्दे कुक्कुटकेतनं सुरवरं वन्दे कृपाम्भोनिधिं
वन्दे कल्पकपुष्पशैलनिलयं वन्दे गुहं षण्मुखम्।
द्विषड्भुजं षण्मुखमम्बिकासुतं
कुमारमादित्यसमानतेजसम्।
वन्दे मयूरासनमग्निसम्भवं
सेनान्यमद्याहमभीष्टसिद्धये।
ध्यायेत् षण्मुखमिन्दु कोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युति षट्किरीटविलसत्केयूरहारानन्वितम्।
कर्णालंकृत कुण्डलप्रविलसत्कण्ठस्थलैः शोभितं
काञ्ची कङ्कण किङ्किणीरवयुतं श‍ृङ्गारसारोदयम्।
ध्यायेदीप्सितसिद्धितं शिवसुतं श्रीद्वादशाक्षं गुहं
बाणङ्केटकमङ्कुशञ्चवरदं पाशं धनुश्चक्रकम्।
वज्रंशक्तिमसिन्त्रिशूलमभयं दोर्भिर्धृतं षण्मुखं
भास्वच्छत्रमयूरवाहसुभगं चित्राम्बरालङ्कृतम्।
गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारं
सुब्रह्मण्यं सुरेशं गुहमचलदिदं रुद्रतेजस्वरूपम्।
सेनान्यं तारकघ्नं गजमुखसहजं कार्तिकेयं षडास्यं
सुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि।
षण्मुखं द्वादशभुजं द्वादशाक्षं शिखिध्वजम्।
शक्तिद्वयसमायुक्तं वामदक्षिणपार्श्वयोः।
शक्तिंशूलं तथा खड्गं खेटञ्चापंशरं तथा।
घण्टां च कुक्कुटञ्चैवपाशञ्चैवतथाङ्कुशम्।
अभयं वरदञ्चैव धारयान्तं कराम्बुजैः।
महाबलं महावीर्यं शिखिवाहं शिखिप्रभम्।
किरीटकुण्डलोपेतं खण्डितोद्दण्डतारकम्।
मण्डलीकृतकोदण्डं काण्डैः क्रौञ्चधराधरम्।
दारयन्तं दुराधर्षं दैत्यदानवराक्षसैः।
देवसेनापतिं देवकार्यैकनिरतं प्रभुम्।
महादेवतनूजातं मदनायुतसुन्दरम्।
चिन्तये हृदयाम्भोजे कुमारममितेजसम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |