श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम्।
श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम्।
भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम्।
श्रीवीरभद्रादिगणैः समेतं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं सुरसैन्यपालं शूरादिसर्वासुरसूदकं तम्।
विरिञ्चिविष्ण्वादिसुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम्।
मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं तं गुरुरूपिणं नः।
श्रीस्वामिनाथं विबुधाग्र्यवन्द्यं विद्याधराराधितपादपद्मम्।
अहोपयोवीवधनित्यतृप्तं वन्दे गुहं तं गुरुरूपिणं नः।
पुरुषोत्तम स्तोत्र
नमः श्रीकृष्णचन्द्राय परिपूर्णतमाय च। असङ्ख्याण्डाधिपतये गोलोकपतये नमः। श्रीराधापतये तुभ्यं व्रजाधीशाय ते नमः। नमः श्रीनन्दपुत्राय यशोदानन्दनाय च। देवकीसुत गोविन्द वासुदेव जगत्पते। यदूत्तम जगन्नाथ पाहि मां पुरुषोत्तम।
Click here to know more..षडानन अष्टक स्तोत्र
नमोऽस्तु वृन्दारकवृन्दवन्द्य- पादारविन्दाय सुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय। नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम्। दात्रे रतानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य। अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय पर
Click here to know more..गोरख बानी