देवसेनानिनं दिव्यशूलपाणिं सनातनम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
कार्तिकेयं मयूराधिरूढं कारुण्यवारिधिम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
महादेवतनूजातं पार्वतीप्रियवत्सलम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
गुहं गीर्वाणनाथं च गुणातीतं गुणेश्वरम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
षडक्षरीप्रियं शान्तं सुब्रह्मण्यं सुपूजितम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
तेजोगर्भं महासेनं महापुण्यफलप्रदम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
सुव्रतं सूर्यसङ्काशं सुरारिघ्नं सुरेश्वरम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
कुक्कुटध्वजमव्यक्तं राजवन्द्यं रणोत्सुकम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
षण्मुखस्याष्टकं पुण्यं पठद्भ्यो भक्तिदायकम्|
आयुरारोग्यमैश्वर्यं वीर्यं प्राप्नोति मानुषः|
परशुराम स्तोत्र
कराभ्यां परशुं चापं दधानं रेणुकात्मजम्। जामदग्न्यं भजे....
Click here to know more..आत्म तत्व संस्मरण स्तोत्र
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं प....
Click here to know more..अंतिम संस्कार का एक प्रयोजन