सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं
वह्न्युद्भूतं भक्तकृपालुं गुहमेकम्।
वल्लीनाथं षण्मुखमीशं शिखिवाहं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
स्वर्णाभूषं धूर्जटिपुत्रं मतिमन्तं
मार्ताण्डाभं तारकशत्रुं जनहृद्यम्।
स्वच्छस्वान्तं निष्कलरूपं रहितादिं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
गौरीपुत्रं देशिकमेकं कलिशत्रुं
सर्वात्मानं शक्तिकरं तं वरदानम्।
सेनाधीशं द्वादशनेत्रं शिवसूनुं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
मौनानन्दं वैभवदानं जगदादिं
तेजःपुञ्जं सत्यमहीध्रस्थितदेवम्।
आयुष्मन्तं रक्तपदाम्भोरुहयुग्मं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
निर्नाशं तं मोहनरूपं महनीयं
वेदाकारं यज्ञहविर्भोजनसत्त्वम्।
स्कन्दं शूरं दानवतूलानलभूतं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
सुब्रह्मण्य अष्टक स्तोत्र
हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कजपद्मबन्धो। श्रीशादिदेवगणपूजितपादपद्म वल्लीशनाथ मम देहि करावलम्बम्। देवादिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते वल्लीशनाथ मम देहि करावलम्बम्। नित्यान्नरदाननि
Click here to know more..गोविन्दाष्टक स्तोत्र
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्खण- लोलमनायासं परमायासम्। मायाकल्पित- नानाकारमनाकारं भुवनाकारं क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम्। मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासं व्यादितवक्त्रालोकित- लोकालोकचतुर्दशलोकालिम्।
Click here to know more..स्वर्ग के कुछ खबर