नमोऽस्तु वृन्दारकवृन्दवन्द्य-
पादारविन्दाय सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय।
नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे
कर्त्रे समस्तस्य मनोरथानाम्।
दात्रे रतानां परतारकस्य
हन्त्रे प्रचण्डासुरतारकस्य।
अमूर्तमूर्ताय सहस्रमूर्तये
गुणाय गुण्याय परात्पराय।
आपारपारायपरात्पराय
नमोऽस्तु तुभ्यं शिखिवाहनाय।
नमोऽस्तु ते ब्रह्मविदां वराय
दिगम्बरायाम्बरसंस्थिताय।
हिरण्यवर्णाय हिरण्यबाहवे
नमो हिरण्याय हिरण्यरेतसे।
तपःस्वरूपाय तपोधनाय
तपःफलानां प्रतिपादकाय।
सदा कुमाराय हि मारमारिणे
तृणीकृतैश्वर्यविरागिणे नमः।
नमोऽस्तु तुभ्यं शरजन्मने विभो
प्रभातसूर्यारुणदन्तपङ्क्तये।
बालाय चापारपराक्रमाय
षाण्मातुरायालमनातुराय।
मीढुष्ठमायोत्तरमीढुषे नमो
नमो गणानां पतये गणाय।
नमोऽस्तु ते जन्मजरादिकाय
नमो विशाखाय सुशक्तिपाणये।
सर्वस्य नाथस्य कुमारकाय
क्रौञ्चारये तारकमारकाय।
स्वाहेय गाङ्गेय च कार्तिकेय
शैलेय तुभ्यं सततन्नमोऽस्तु।
दुर्गा कवच
श्रीनारद उवाच। भगवन् सर्वधर्मज्ञ सर्वज्ञानविशारद। ब्र....
Click here to know more..नारायण कवच
अथ श्रीनारायणकवचम्। राजोवाच। यया गुप्तः सहस्राक्षः सवा....
Click here to know more..एकदन्तं चतुर्हस्तम्