षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम्।
देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम्।
तारकासुरहन्तारं मयूरासनसंस्थितम्।
शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम्।
विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम्।
कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम्।
कुमारं मुनिशार्दूल- मानसानन्दगोचरम्।
वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम्।
प्रलयस्थितिकर्तार- मादिकर्तारमीश्वरम्।
भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम्।
विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम्।
सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम्।
स्कन्दषट्कस्तोत्रमिदं यः पठेत्च्छ्रृणुयान्नरः।
वाञ्छितांल्लभते सद्यश्चान्ते स्कन्दपुरं व्रजेत्।
भारती भावन स्तोत्र
श्रितजनमुख- सन्तोषस्य दात्रीं पवित्रां जगदवनजनित्रीं व....
Click here to know more..कामाक्षी अष्टक स्तोत्र
श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां कल....
Click here to know more..मन की शुद्धि के लिए श्री वेङ्कटेश का मंत्र
निरञ्जनाय विद्महे निराभासाय धीमहि । तन्नो वेङ्कटेशः प्....
Click here to know more..