चण्डपापहर- पादसेवनं गण्डशोभिवर- कुण्डलद्वयम्।
दण्डिताखिल- सुरारिमण्डलं दण्डपाणिमनिशं विभावये।
कालकालतनुजं कृपालयं बालचन्द्रविलसज्-जटाधरम्।
चेलधूतशिशु- वासरेश्वरं दण्डपाणिमनिशं विभावये।
तारकेश- सदृशाननोज्ज्वलं तारकारिमखिलार्थदं जवात्।
तारकं निरवधेर्भवाम्बुधेर्दण्ड- पाणिमनिशं विभावये।
तापहारिनिज- पादसंस्तुतिं कोपकाममुख- वैरिवारकम्।
प्रापकं निजपदस्य सत्वरं दण्डपाणिमनिशं विभावये।
कामनीयकवि- निर्जिताङ्गजं रामलक्ष्मण- कराम्बुजार्चितम्।
कोमलाङ्गमति- सुन्दराकृतिं दण्डपाणिमनिशं विभावये।
पुरुषोत्तम स्तोत्र
नमः श्रीकृष्णचन्द्राय परिपूर्णतमाय च। असङ्ख्याण्डाधिपतये गोलोकपतये नमः। श्रीराधापतये तुभ्यं व्रजाधीशाय ते नमः। नमः श्रीनन्दपुत्राय यशोदानन्दनाय च। देवकीसुत गोविन्द वासुदेव जगत्पते। यदूत्तम जगन्नाथ पाहि मां पुरुषोत्तम।
Click here to know more..नवग्रह मंगल स्तोत्र
भास्वान् काश्यपगोत्रजोऽरुणरुचिः सिंहाधिपोऽर्कः सुरो गुर्विन्द्वोश्च कुजस्य मित्रमखिलस्वामी शुभः प्राङ्मुखः। शत्रुर्भार्गवसौरयोः प्रियकुजः कालिङ्गदेशाधिपो मध्ये वर्तुलपूर्वदिग्दिनकरः कुर्यात् सदा मङ्गलम्।
Click here to know more..नर-नारायण मुनियों को मोहित करने की कोशिश