अंबिका स्तव

स्मितास्यां सुरां शुद्धविद्याङ्कुराख्यां
मनोरूपिणीं देवकार्योत्सुकां ताम्।
सुसिंहस्थितां चण्डमुण्डप्रहारां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
सुमेरुस्थितां सर्वभूषाविभूषां
जगन्नायिकां रक्तवस्त्रान्विताङ्गाम्।
तमोभञ्जिनीं मीनसादृश्यनेत्रां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
शिवाङ्गीं भवानीं ज्वलद्रक्तजिह्वां
महापापनाशां जनानन्ददात्रीम्।
लसद्रत्नमालां धरन्तीं धराद्यां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
सदा मङ्गलां सर्वधर्स्वरूपां
सुमाहेश्वरीं सर्वजीवच्छरण्याम्।
तडित्सोज्ज्वलां सर्वदेवैः प्रणम्यां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
सहस्राब्जरूढां कुलान्तःस्थितैकां
सुधागर्भिणीं मूलमन्त्रात्मरूपाम्।
सुराह्लादिनीं शूरनन्द्यां धरित्रीं
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |