वरां विनायकप्रियां शिवस्पृहानुवर्तिनीम्
अनाद्यनन्तसम्भवां सुरान्वितां विशारदाम्।
विशालनेत्ररूपिणीं सदा विभूतिमूर्तिकां
महाविमानमध्यगां विचित्रितामहं भजे।
निहारिकां नगेशनन्दनन्दिनीं निरिन्द्रियां
नियन्त्रिकां महेश्वरीं नगां निनादविग्रहाम्।
महापुरप्रवासिनीं यशस्विनीं हितप्रदां
नवां निराकृतिं रमां निरन्तरां नमाम्यहम्।
गुणात्मिकां गुहप्रियां चतुर्मुखप्रगर्भजां
गुणाढ्यकां सुयोगजां सुवर्णवर्णिकामुमाम्।
सुरामगोत्रसम्भवां सुगोमतीं गुणोत्तरां
गणाग्रणीसुमातरं शिवामृतां नमाम्यहम्।
रविप्रभां सुरम्यकां महासुशैलकन्यकां
शिवार्धतन्विकामुमां सुधामयीं सरोजगाम्।
सदा हि कीर्तिसंयुतां सुवेदरूपिणीं शिवां
महासमुद्रवासिनीं सुसुन्दरीमहं भजे।