अपराधसहस्राणि ह्यपि कुर्वाणे मयि प्रसीदाम्ब।
अखिलाण्डदेवि करुणावाराशे जम्बुकेशपुण्यतते।
ऊर्ध्वस्थिताभ्यां करपङ्कजाभ्यां
गाङ्गेयपद्मे दधतीमधस्तात्।
वराभये सन्दधतीं कराभ्यां
नमामि देवीमखिलाण्डपूर्वाम्।
जम्बूनाथमनोऽम्बुजात- दिनराड्बालप्रभासन्ततिं
शम्बूकादिवृषावलिं कृतवतीं पूर्वं कृतार्थामपि।
कम्बूर्वीधरधारिणीं वपुषि च ग्रीवाकुचव्याजतो
ह्यम्बूर्वीधररूपिणीं हृदि भजे देवीं क्षमासागरीम्।
जम्बूमूलनिवासं कम्बूज्ज्वलगर्व- हरणचणकण्ठम्।
अम्बूर्वीधररूपं शम्बूकादेर्वरप्रदं वन्दे।