कामाक्षी अष्टोत्तर शतनामावलि

ॐ कालकण्ठ्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ बालायै नमः ।
ॐ मायायै नमः ।
ॐ त्रिपुरसुन्दर्यै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सौभाग्यवत्यै नमः ।
ॐ श्रीक्लीङ्कार्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ ऐङ्कार्यै नमः ।
ॐ स्कन्दजनन्यै नमः ।
ॐ परायै नमः ।
ॐ श्रीपञ्चदशाक्षर्यै नमः ।
ॐ त्रैलोक्यमोहनाधीशायै नमः ।
ॐ सर्वाशापूरवल्लभायै नमः ।
ॐ सर्वसङ्क्षोभणाधीशायै नमः ।
ॐ सर्वसौभाग्यवल्लभायै नमः ।
ॐ सर्वार्थसाधकाधीशायै नमः ।
ॐ सर्वरक्षाकराधिपायै नमः ।
ॐ सर्वरोगहराधीशायै नमः ।
ॐ सर्वसिद्धिप्रदाधिपायै नमः ।
ॐ सर्वानन्दमयाधीशायै नमः ।
ॐ योगिनीचक्रनायिकायै नमः ।
ॐ भक्तानुरक्तायै नमः ।
ॐ रक्ताङ्ग्यै नमः ।
ॐ शङ्करार्धशरीरिण्यै नमः ।
ॐ पुष्पबाणेक्षुकोदण्डपाशाङ्कुशकरायै नमः ।
ॐ उज्वलायै नमः ।
ॐ सच्चिदानन्दलहर्यै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ अनङ्गकुसुमोद्यानायै नमः ।
ॐ चक्रेश्वर्यै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ गुप्तायै नमः ।
ॐ गुप्ततरायै नमः ।
ॐ श्रीनित्यायै नमः ।
ॐ श्रीनित्यक्लिन्नायै नमः ।
ॐ श्रीमदद्रवायै नमः ।
ॐ मोहिण्यै नमः ।
ॐ परमानन्दायै नमः ।
ॐ कामेश्यै नमः ।
ॐ तरुणीकलायै नमः ।
ॐ श्रीकलावत्यै नमः ।
ॐ भगवत्यै नमः ।
ॐ पद्मरागकिरीटायै नमः ।
ॐ रक्तवस्त्रायै नमः ।
ॐ रक्तभूषायै नमः ।
ॐ श्रीरक्तगन्धानुलेपनायै नमः ।
ॐ सौगन्धिकलसद्वेण्यै नमः ।
ॐ मन्त्रिण्यै नमः ।
ॐ तन्त्ररूपिण्यै नमः ।
ॐ श्रीतत्त्वमय्यै नमः ।
ॐ सिद्धान्तपुरवासिन्यै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ श्रीचिन्मय्यै नमः ।
ॐ श्रीदेव्यै नमः ।
ॐ कौलिन्यै नमः ।
ॐ परदेवतायै नमः ।
ॐ कैवल्यरेखायै नमः ।
ॐ वशिन्यै नमः ।
ॐ सर्वेश्वर्यै नमः ।
ॐ सर्वमातृकायै नमः ।
ॐ विष्णुस्वस्रे नमः ।
ॐ वेदमय्यै नमः ।
ॐ सर्वसम्पत्प्रदायिन्यै नमः ।
ॐ किङ्करीभूतगीर्वाण्यै नमः ।
ॐ सुतवापिविनोदिन्यै नमः ।
ॐ मणिपूरसमासीनायै नमः ।
ॐ अनाहताब्जवासिन्यै नमः ।
ॐ विशुद्धिचक्रनिलयायै नमः ।
ॐ आज्ञापद्मनिवासिन्यै नमः ।
ॐ अष्टत्रिंशत्कलामूर्त्यै नमः ।
ॐ सुषुम्नाद्वारमध्यकायै नमः ।
ॐ योगीश्वरमनोध्येयायै नमः ।
ॐ परब्रह्मस्वरूपिण्यै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ चन्द्रचूडायै नमः ।
ॐ पुराणागमरूपिण्यै नमः ।
ॐ ओङ्कार्यै नमः ।
ॐ विमलायै नमः ।
ॐ विद्यायै नमः ।
ॐ पञ्चप्रणवरूपिण्यै नमः ।
ॐ भूतेश्वर्यै नमः ।
ॐ भूतमय्यै नमः ।
ॐ पञ्चाशत्पीठरूपिण्यै नमः ।
ॐ षोडान्यासमहारूपिण्यै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ दशमातृकायै नमः ।
ॐ आधारशक्त्यै नमः ।
ॐ अरुणायै नमः ।
ॐ श्रीलक्ष्म्यै नमः ।
ॐ श्रीत्रिपुरभैरव्यै नमः ।
ॐ श्रीरहःपूजासमालोलायै नमः ।
ॐ श्रीरहोयन्त्रस्वरूपिण्यै नमः ।
ॐ श्रीत्रिकोणमध्यनिलयायै नमः ।
ॐ श्रीबिन्दुमण्डलवासिन्यै नमः ।
ॐ श्रीवसुकोणपुरावासायै नमः ।
ॐ श्रीदशारद्वयवासिन्यै नमः ।
ॐ श्रीचतुर्दशारचक्रस्थायै नमः ।
ॐ वसुपद्मनिवासिन्यै नमः ।
ॐ श्रीस्वराब्जपत्रनिलयायै नमः ।
ॐ श्रीवृत्तत्रयवासिन्यै नमः ।
ॐ श्रीचतुरस्रस्वरूपास्यायै नमः ।
ॐ श्रीनवचक्रस्वरूपिण्यै नमः ।
ॐ महानित्यायै नमः ।
ॐ विजयायै नमः ।
ॐ श्रीकामाक्षीदेव्यै नमः ।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

18.8K

Comments

kyt5w

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |