शरशरासन- पाशलसत्करा-
मरुणवर्णतनुं पररूपिणीम्।
विजयदां परमां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
अभिनवेन्दु- शिरस्कृतभूषणा-
मुदितभास्कर- तुल्यविचित्रिताम्।
जननिमुख्यतरां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
अगणितां पुरुषेषु परोत्तमां
प्रणतसज्जन- रक्षणतत्पराम्।
गुणवतीमगुणां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
विमलगान्धित- चारुसरोजगा-
मगतवाङ्मय- मानसगोचराम्।
अमितसूर्यरुचिं मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
परमधामभवां च चतुष्करां
सुरमसुन्दर- शङ्करसंयुताम्।
अतुलितां वरदां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
गुरु तोटक स्तोत्र
स्मितनिर्जितकुन्दसुमं ह्यसमं मुखधूतसुधांशुमदं शमदम्।....
Click here to know more..श्रीनिवास स्तोत्र
स्रष्टा च नित्यं जगतामधीशः त्राता च हन्ता विभुरप्रमेयः....
Click here to know more..एक गुरुजी शिष्य को खेत पर भेज देते हैं