हनुमद् रक्षा कवच

हनुमद् रक्षा कवच

प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा ।
रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः ॥
शिरो मे हनुमान् पातु भालं पवननन्दनः ।
आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती ॥
घ्राणं पातु महावीरो मुखं लक्ष्मणप्राणदः ।
जिह्वां मनोजवः पातु कण्ठं पातु जितेन्द्रियः ॥
स्कन्धौ महाबली पातु भुजौ सङ्कटमोचनः ।
करौ विश्वम्भरः पातु हृदयं सर्वशक्तिमान् ॥
मध्यं पातु महातेजाः नाभिं सागरलङ्घनः ।
रामदूतः कटी पातु सक्थिनी राक्षसेन्द्रजित् ॥
ऊरू पुच्छबलः पातु भीमगर्वापहारकः ।
जानुनी श्रीप्रदः पातु जङ्घे लङ्काप्रदाहकः ॥
पादौ श्रीरामभक्तश्च सूर्यमण्डलभक्षकः ।
हनुमान् पातु मे कायं मकरध्वज जन्मदः ॥
एतां रुद्रबलोपेतां रक्षां यः सुकृती पठेत् ।
सदीर्घायुसुखी पुत्री बलवान् बुद्धिमान् भवेत् ॥

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies