शारदा स्तुति

अचलां सुरवरदा चिरसुखदां जनजयदाम् ।
विमलां पदनिपुणां परगुणदां प्रियदिविजाम् ।
शारदां सर्वदा भजे शारदाम् ।
सुजपासुमसदृशां तनुमृदुलां नरमतिदाम् ।
महतीप्रियधवलां नृपवरदां प्रियधनदाम् ।
शारदां सर्वदा भजे शारदाम् ।
सरसीरुहनिलयां मणिवलयां रसविलयाम् ।
शरणागतवरणां समतपनां वरधिषणाम् ।
शारदां सर्वदा भजे शारदाम् ।
सुरचर्चितसगुणां वरसुगुणां श्रुतिगहनाम् ।
बुधमोदितहृदयां श्रितसदयां तिमिरहराम् ।
शारदां सर्वदा भजे शारदाम् ।
कमलोद्भववरणां रसरसिकां कविरसदाम् ।
मुनिदैवतवचा स्मृतिविनुतां वसुविसृताम् ।
शारदां सर्वदा भजे शारदाम् ।
य इमं स्तवमनिशं भुवि कथयेदथ मतिमान् ।
लभते स तु सततं मतिमपरां श्रुतिजनिताम् ।
शारदां सर्वदा भजे शारदाम् ।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies