अन्तस्समस्तजगतां यमनुप्रविष्ट-
माचक्षते मणिगणेष्विव सूत्रमार्याः ।
तं केलिकल्पितरघूद्वहरूपमाद्यं
पङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥
आम्नायशैलशिखरैकनिकेतनाय
वाल्मीकिवाग्जलनिधिप्रतिबिम्बिताय ।
कालाम्बुदाय करुणारसमेदुराय
कस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥
इन्दुप्रसादमवतंसयता तदीयं
चापं करे हुतवहं वहता हरेण ।
शङ्के जगत्त्रयमनुग्रहनिग्रहाभ्यां
संयोज्यते रघुपते समयान्तरेषु ॥
ईदृग्विधस्त्वमिति वेद न सोऽपि वेदः
शक्तोऽन्तिकस्थितमवेक्षितुमुत्तमाङ्गे ।
श्रोतुं क्षमं न कुदृशेक्षितुमप्यतस्त्वां
सर्वे विदन्तु कथमीश कथं स्तुवन्तु ॥
उष्णांशुबिम्बमुदधिस्मयघस्मरास्त्र
ग्रावा च तुल्यमजनिष्ट गृहं यथा ते ।
वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां
देव प्रशंसति तथा यदि कोऽत्र दोषः ॥
ऊढः पुरासि विनतान्वयसम्भवेन
देव त्वया किमधुनापि तथा न भाव्यम् ।
पूर्वे जना मम विनेमुरसंशयं त्वां
जानासि राघव तदन्वयसम्भवं माम् ॥
ऋक्षं प्लवङ्गमपि रक्षसि चेन्महात्मन्
विप्रेषु किं पुनरथापि न विश्वसाम ।
अत्रापराध्यति किल प्रथमद्वितीयौ
वर्णौ तवौदनतया निगमो विवृण्वन् ॥
नॄणां न केवलमसि त्रिदिवौकसां त्वं
राजा यमार्कमरुतोऽपि यतस्त्रसन्ति ।
दीनस्य वाङ्मम तथा वितते तव स्यात्
कर्णे रघूद्वह यतः ककुभोऽपि जाताः ॥
क्लृप्तामपि व्यसनिनीं भवितव्यतां मे
नाथान्यथा कुरु तव प्रभुतां दिदृक्षोः ।
चक्रे शिलापि तरुणी भवता तदास्तां
मायापि यद्धटयते तव दुर्घटानि ॥
एकं भवन्तमृषयो विदुरद्वितीयं
जानामि कार्मुकामहं तु तव द्वितीयम् ।
श्रुत्याश्रिता जगति यद्गुणघोषणा सा
दूरीकरोति दुरितानि समाश्रितानाम् ॥
ऐशं शरासमचलोपममिक्षुवल्ली-
भञ्जं बभञ्ज फिल यस्तव बाहुदण्डः ।
तस्य त्वशीतकरवंशवतंस शंस
किं दुष्करो भवति मे विधिपाशभङ्गः ॥
ओजस्तव प्रहितशेषविषाग्निदग्धैः
स्पष्टं जगद्भिरुपलभ्य भयाकुलानाम् ।
गीतोक्तिभिस्त्वयि निरस्य मनुष्यबुद्धिं
देव स्तुतोऽसि विधिविष्णुवृषध्जानाम् ॥
औत्कण्ठ्यमस्ति दशकण्ठरिपो ममैकं
द्रक्ष्यामि तावकपदाम्बुरुहं कदेति ।
अप्येति कर्म निखिलं मम यत्र दृष्टे
लीनाश्च यत्र यतिभिः सह मत्कुलीनाः ॥
अम्भोनिधाववधिमत्यवकीर्य बाणान्
किं लब्धवानसि ननु श्वशुरस्तवायम् ।
इष्टापनेतुमथवा यदि बाणकण्डू-
र्देवायमस्यनवधिर्मम दैन्यसिन्धुः ॥
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
सत्या कथं भवतु साधुविवेकभाजाम् ॥
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरःकिरीट-
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥
खंवायुरग्निरुदकं पृथिवी च शब्दः
स्पर्शश्व रूपरसगन्धमपि त्वमेव ।
राम श्रिताश्रय विभो दययात्मबन्धो
धत्से वपुः शरशरासभृदब्दनीलम् ॥
गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥
घण्टाघणङ्घणितकोटिशरासनं ते
लुण्टाकमस्तु विपदां मम लोकनाथ ।
जिह्वालुतां वहति यद्भुजगो रिपूणा-
मुष्णैरसृग्भिरुदरम्भरिणा शरेण ॥
प्राङ्स्यवाङ्सि परेश तथासि तिर्यक्
ब्रूमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेपि तव वा भुवि न म्रियन्ते
मन्दस्य राघव सहस्व ममापराधम् ॥
चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि सम्भविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥
छन्नं निजं कुहनया मृगरूपभाजो
नक्तञ्चरस्य न किमाविरकारि रूपम् ।
त्वत्पत्रिणापि रघुवीर ममाद्य माया-
गूढस्वरूपविवृतौ तव कः प्रयासः ॥
जन्तोः किल त्वदभिधा मम कर्णिकायां
कर्णे जपन् हरति कश्चन पञ्चकोशान् ।
इत्यामनन्ति रघुवीर ततो भवन्तं
राजाधिराज इति विश्वसिमः कथं वा ॥
झङ्कारिभृङ्गकमलोपमितं पदं ते
चारुस्तवप्रवणचारणकिन्नरौघम् ।
जानामि राघव जलाशयवासयोग्यं
स्वैरं वसेत्तदधुनैव जलाशये मे ॥
ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै-
र्ज्ञानं क्व मे भवतु दुस्त्यजवासनस्य ।
देवाभयं वितर किं नु सकृत्प्रपत्त्या
मह्यं न विस्मर पुरैव कृतां प्रतिज्ञाम् ॥
टङ्कारमीश भवदीयशरासनस्य
ज्यास्भालनेन जनितं निगमं प्रतीमः ।
येनैव राघव भवानवगम्य मास-
त्रासं निरस्य सुखमातनुते बुधानाम् ॥
ठात्कृत्य मण्डलमखण्डि यदुष्णभानो-
र्देव त्वदस्त्रदलितैर्युधि यातुधानैः ।
शङ्के ततस्तव पदं विदलय्य वेगा-
त्तैरद्भुतं प्रतिकृतिर्विदधे वधस्य ॥
डिम्भस्तवास्मि रघुवीर तथा दयस्व
लभ्यं यथा कुशलवत्वमपि क्षितौ मे ।
किञ्चिन्मनो मयि निधेहि तव क्षतं किं
व्यर्था भवत्वमनसं गृणती श्रुतिस्त्वाम् ॥
ढक्कां त्वदीययशसा मधुनापि शृण्मः
प्राचेतसस्य भणितिं भरताग्रजन्मन् ।
सत्ये यशस्तव शृणोति मृकण्डुसूनो-
र्धाताप्यतो जगति को हि भवादृशोऽन्यः ॥
त्राणं समस्तजगतां तव किं न कार्यं
सा किं न तत्र करणं करुणा तवैव ।
आख्याति कार्यकरणे तव नेति या वाङ्-
मुख्या न सा रघुपते भवति श्रुतीनाम् ॥
तत्त्वम्पदे पदमसीति च यानि देव
तेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् ।
सेवे पदद्वयमतो मृदुलं न वादौ
यद्दारुणैरपि ततो भवदर्थलाभः ॥
प्रोथं यदुद्वहसि भूमिवहैकदंष्ट्रं
विश्वप्रभो विघटिताभ्रघटाः सटा वा ।
रूपं तदुद्भटमपास्य रुचासि दिष्ट्या
त्वं शम्बरारिरपि कैतवशम्बरारिः ॥
दग्ध्वा निशाचरपुरी प्रथितस्तवैको
भक्तेषु दानवपुरत्रितयं तथान्यः ।
त्वञ्चाशराव्युरसमस्यगुणैः प्रभो मे
पुर्यष्टकप्रशमनेन लभस्व कीर्तिम् ॥
धत्ते शिरांसि दश यस्सुकरो वधोऽस्य
किं न त्वया निगमगीतसहस्त्रमूर्ध्ना ।
मोहं ममामितपदं यदि देव हन्याः
कीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥
नम्रस्य मे भव विभो स्वयमेव नाथो
नाथो भव त्वमिति चोदयितुं बिभेमि ।
येन स्वसा दशमुखस्य नियोजयन्ती
नाथो भव त्वमिति नासिकया विहीना ॥
पर्याकुलोऽस्मि किल पातकमेव कुर्वन्
दीनं ततः करुणया कुरु मामपापम् ।
कर्तुं रघूद्वह नदीनमपापमुर्व्यां
शक्तस्त्वमित्ययमपैति न लोकवादः ॥
फल्गूनि यद्यपि फलानि न लिप्सते मे
चेतः प्रभो तदपि नो भजति प्रकृत्या ।
मूर्त्यन्तरं व्रजवधूजनमोहनं ते
जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥
बर्हिश्छदग्रथितकेशमनर्हवेष-
मादाय गोपवनिताकुचकुङ्कुमाङ्कम् ।
ह्रीणो न राघव भवान् यदतः प्रतीमः
पत्न्या ह्रिया विरहितोऽसि पुरा श्रियेव ॥
भद्राय मेऽस्तु तव राघव बोधमुद्रा
विद्रावयन्त्यखिलमान्तरमन्धकारम् ।
मन्त्रस्य ते परिपुनन्ति जगद्यथाष-
डष्टाक्षराण्यापि तथैव विवृण्वती सा ॥
मन्दं निधेहि हृदि मे भगवन्नटव्यां
पाषाणकण्टकसहिष्णु पदाम्बुजं ते ।
अङ्गुष्ठमात्रमथवात्र निधातुमर्ह-
स्याक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥
यज्ञेन देव तपसा यदनाशकेन
दानेन च द्विजगणैर्विविदिष्यसे त्वम् ।
भाग्येन मे जनितृषा तदिदं यतस्त्वां
चापेषुभाक् परमबुध्यत जामदग्न्यः ॥
रम्योज्ज्वलस्तव पुरा रघुवीर देहः
कामप्रदो यदभवत् कमलालयायै ।
चित्रं किमत्र चरणाम्बुजरेणुरेखा
कामं ददौ न मुनये किमु गौतमाय ॥
लङ्केशवक्षसि निविश्य यथा शरस्ते
मन्दोदरीकुचतटीमणिहारचोरः ।
शुद्धे सतां हृदि गतस्त्वमपि प्रभो मे
चित्ते तथा हर चिरोवनतामविद्याम् ॥
वन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधे-
स्तातं भुवश्च रघुपुङ्गव रेखया यत् ।
वज्रं बिभर्ति भजदार्तिगिरिं विभेत्तुं
विद्यां नताय वितरेयमिति ध्वजं च ॥
शम्भुः स्वयं निरदिशद्गिरिकन्यकायै
यन्नाम राम तव नामसहस्रतुल्यम् ।
अर्थं भवन्तमपि तद्वहदेकमेव
चित्रं ददाति गृणते चतुरः किलार्थान् ॥
षट् ते विधिप्रभृतिभिः समवेक्षितानि
मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो ।
एकेन यानि गुणितान्यपि मानसेन
चित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥
सर्गस्थितिप्रलयकर्मसु चोदयन्ती
माया गुणत्रयमयी जगतो भवन्तम् ।
ब्रह्मेति विष्णुरिति रुद्र इति त्रिधा ते
नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥
हंसोऽसि मानसचरो महतां यतस्त्वं
सम्भाव्यते कील ततस्तव पक्षपातः ।
मय्येनमर्पय न चेद्रघुनन्दन
जिष्णोरपि त्रिभुवने समवेश राम ॥
लक्ष्मीर्यतोऽजनि यथैव जलाशयाना-
मेको रुषा तव तथा कृपयापि कार्यः ।
अन्योऽपि कश्चिदिति चेदहमेव वर्ते
तादृग्विधस्तपनवंशमणे किमन्यैः ॥
क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधान्
सर्वंसहा ननु वधूरपि ते पुराणी ।
वासालयं च ननु हृत्कमलं मदीयं
कान्तापरापि न हि किं कमलालया ते ॥
ललितांबा स्तोत्र
सहस्रनामसन्तुष्टां देविकां त्रिशतीप्रियाम्| शतनामस्त....
Click here to know more..लक्ष्मी द्वादश नाम स्तोत्र
श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी ....
Click here to know more..स्वभावो नोपदेशेन
किसी के स्वभाव को समझाकर बदला नहीं जा सकता। पानी को जितना....
Click here to know more..