कौसल्या नंदन स्तोत्र

दशरथात्मजं रामं कौसल्यानन्दवर्द्धनम् ।
जानकीवल्लभं वन्दे पूर्णं ब्रह्मसनातनम् ॥

किरीटकुण्डलज्योत्स्नामञ्जुलं राघवं भजे ।
धनुर्धरं सदा शान्तं सर्वदा सत्कृपाकरम् ॥

श्रुतिपुराणसूत्रादिशास्त्रै र्नित्यं विवेचितम् ।
ऋषिमुनीन्द्रवर्यैश्च वर्णितं नौमि राघवम् ॥

हनुमता सदा वन्द्यं सीतया परिशोभितम् ।
लक्ष्मणेन समाराध्यं श्रीमद्रामं हृदा भजे ॥

श्रीभरताग्रजं रामं शत्रुघ्नसेवितं भजे ।
अयोध्यायां महापुर्यां शोभितं सूर्यवंशजम् ॥

वशिष्ठ मुनिना सार्द्ध रामं चारुविभूषितम् ।
सरयूपुलिने नौमि व्रजन्तं सह सीतया ॥

नवीननीरदश्यामं नीलाब्जमाल्यधारिणम् ।
नववृन्दादलैरर्च्यं नौमि रामं दयार्णवम् ॥

रसिकैः सद्भिराराध्यं महानन्दसुधाप्रदम् ।
गोविप्रपालकं रामं वन्दे श्रीरघुनन्दनम् ॥

ऋषीणां यागरक्षायां सर्वरूपेण तत्परम् ।
वेदवेदान्ततत्त्वज्ञं श्रीराममभिवादये ॥

दशानननिहन्तारं दीनानुग्रहसम्प्रदं
अपरिमेयगाम्भीर्यं श्रीरामं प्रभजे सदा ॥

परात्परतरं ब्रह्म मनुजाकृति शोभनम् ।
नारायणं भजे नित्यं राघवं सह सीतया ॥

चित्रकूटे महारण्ये मन्दाकिन्या महातटे ।
सीतया शोभितं रामं लक्ष्मणसहितं भजे ॥

पीतकौशेयवस्त्रेण लसितं तिलकाऽङ्कितम् ।
नानाऽलङ्कारशोभाऽऽढ्यं रघुनाथं स्मराम्यहम् ॥

विलसच्चारुचापञ्च कोटिकन्दर्पसुन्दरम् ।
हनुमता सदाऽऽराध्यं नमामि नवविग्रहम् ॥

सागरे सेतुकारञ्च विभीषणसहायकम् ।
वानरसैन्यसङ्घाते राजितं राघवं भजे ॥

शवरीबदरीमञ्जुफलाऽऽस्वादनतत्परम् ।
वन्दे प्रमुदितं रामं दयाधाम कृपार्णवम् ॥

श्रीराघवं महाराजं दिव्यमङ्गलविग्रहं
अनन्तनिर्जरैः सेव्यं भावये मुदिताननम् ॥

नवजलधरश्यामं श्रीदशरथनन्दनम् ।
अयोध्याधाम भूमध्ये शोभितमनिशं भजे ॥

प्रपन्नजीवनाधारं प्रपन्नभक्तवत्सलम् ।
प्रपन्नाऽऽर्तिहरं रामं प्रपन्नपोषकं भजे ॥

अचिन्त्यरूपलावण्यशान्तिकान्तिमनोहरम् ।
हेमकुण्डलशोभाढ्यं हृदा रामं नमाम्यहम् ॥

चित्रविचित्रकौशेयाऽम्बरशोभितमीश्वरम् ।
अव्ययमखिलात्मानं भजेऽहं राघवं प्रियम् ॥

वन्यफलाऽशनाऽभ्यस्तं मन्दाकिन्या महातटे ।
सीतया शोभितं रामं लक्ष्मणसंयुतं भजे ॥

नीलाऽरुणोत्पलाऽऽछन्ने भ्रमरावलिगुञ्जिते ।
सरस्तटे समासीनं रामं राज्ञं स्मरामि तम् ॥

कौसल्यानन्दनं राममयोध्याधाम्नि पूजितम् ।
भावये विविधैर्भक्तैर्भक्तमनोरथप्रदम् ॥

सुग्रीवराज्यदातारं समस्तजगदाश्रयं
असीमकरुणाशीलं नमामि राघवं मुदा ॥

वृन्दामाल्यधरं रामं कल्पवृक्षमभीष्टदम् ।
तञ्च प्रदायकं नौमि पुरुषार्थचतुष्टयम् ॥

कुसुमवाटिकामध्ये पुष्पार्थं पथि राघवम् ।
विहरन्तं महोदरं लक्ष्मणेन समं भजे ॥

क्रीडन्तं सरयूतीरे भ्रातृभिः सह पावने ।
हसन्तं हासयन्तञ्च रामचन्द्रं विभावये ॥

राघवं परमे रम्ये प्रासादे हेमनिर्मिते ।
सिंहासनसमासीनं भजामि सह सीतया ॥

अश्वासीनं महारण्ये स्वीयपरिकरैः सह ।
श्रीभरतप्रियं रामं प्रणमामि तमीश्वरम् ॥

दर्शनीयं महागम्यं साकेते धाम्नि शोभितम् ।
अमन्दानन्दसन्दोहं श्रीरामं मधुरं भजे ॥

कौसल्यानन्दनस्तोत्रं भुक्तिमुक्तिप्रदायकम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies