अथ वैरिनाशनं कालीकवचम्।
कैलास शिखरारूढं शङ्करं वरदं शिवम्।
देवी पप्रच्छ सर्वज्ञं सर्वदेव महेश्वरम्।
श्रीदेव्युवाच-
भगवन् देवदेवेश देवानां भोगद प्रभो।
प्रब्रूहि मे महादेव गोप्यमद्यापि यत् प्रभो।
शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत्।
परमैश्वर्यमतुलं लभेद्येन हि तद् वद।
वक्ष्यामि ते महादेवि सर्वधर्मविदाम्वरे।
अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम्।
विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम्।
सर्वारिष्टप्रशमनंअभिचारविनाशनम्।
सुखदं भोगदं चैव वशीकरणमुत्तमम्।
शत्रुसङ्घाः क्षयं यान्ति भवन्ति व्याधिपीडिताः।
दुःखिनो ज्वरिणश्चैव स्वानिष्टपतितास्तथा।
ॐ अस्य श्रीकालिकाकवचस्य भैरवर्षये नमः शिरसि।
गायत्री छन्दसे नमो मुखे। श्रीकालिकादेवतायै नमो हृदि।
ह्रीं बीजाय नमो गुह्ये। ह्रूं शक्तये नमः पादयोः।
क्लीं कीलकाय नमः सर्वाङ्गे।
शत्रुसङ्घनाशनार्थे पाठे विनियोगः।
ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीम्।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम्।
नीलोत्पलदलश्यामां शत्रुसङ्घविदारिणीम्।
नरमुण्डं तथा खड्गं कमलं वरदं तथा।
विभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीम्।
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम्।
शवासनस्थितां देवीं मुण्डमालाविभूषणाम्।
इति ध्यात्वा महादेवीं ततस्तु कवचं पठेत्।
कालिका घोररूपाद्या सर्वकामफलप्रदा।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे।
ॐ ह्रीं स्वरूपिणीं चैव ह्रां ह्रीं ह्रूं रूपिणी तथा।
ह्रां ह्रीं ह्रैं ह्रौं स्वरूपा च सदा शत्रून् प्रणश्यतु।
श्रीं ह्रीं ऐं रूपिणी देवी भवबन्धविमोचिनी।
ह्रीं सकलां ह्रीं रिपुश्च सा हन्तु सर्वदा मम।
यथा शुम्भो हतो दैत्यो निशुम्भश्च महासुरः।
वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम्।
ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका।
कौमार्यैन्द्री च चामुण्डा खादन्तु मम विद्विषः।
सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी।
मुण्डमाला धृताङ्गी च सर्वतः पातु मा सदा।
ह्रां ह्रीं कालिके घोरदंष्ट्रे च रुधिरप्रिये रूधिरापूर्णवक्त्रे च रूधिरेणावृतस्तनि।
मम सर्वशत्रून् खादय खादय हिंस हिंस मारय मारय भिन्धि भिन्धि
छिन्धि छिन्धि उच्चाटय उच्चाटय विद्रावय विद्रावय शोषय शोषय
स्वाहा।
ह्रां ह्रीं कालिकायै मदीयशत्रून् समर्पय स्वाहा।
ॐ जय जय किरि किरि किट किट मर्द मर्द मोहय मोहय हर हर मम
रिपून् ध्वंसय ध्वंसय भक्षय भक्षय त्रोटय त्रोटय यातुधानान्
चामुण्डे सर्वजनान् राजपुरुषान् स्त्रियो मम वश्याः कुरु कुरु अश्वान् गजान्
दिव्यकामिनीः पुत्रान् राजश्रियं देहि देहि तनु तनु धान्यं धनं यक्षं
क्षां क्षूं क्षैं क्षौं क्षं क्षः स्वाहा।
इत्येतत् कवचं पुण्यं कथितं शम्भुना पुरा।
ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति वैरिणः।
वैरिणः प्रलयं यान्ति व्याधिताश्च भवन्ति हि।
बलहीनाः पुत्रहीनाः शत्रुवस्तस्य सर्वदा।
सहस्रपठनात् सिद्धिः कवचस्य भवेत्तथा।
ततः कार्याणि सिध्यन्ति यथाशङ्करभाषितम्।
श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्नतः।
पादोदकेन पिष्टा च लिखेल्लोहशलाकया।
भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा।
हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत्।
प्राणप्रतिष्ठां कृत्वा वै तथा मन्त्रेण मन्त्रवित्।
हन्यादस्त्रप्रहारेण शत्रो गच्छ यमक्षयम्।
ज्वलदङ्गारलेपेन भवन्ति ज्वरिता भृशम्।
प्रोङ्क्षयेद्वामपादेन दरिद्रो भवति ध्रुवम्।
वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम्।
परमैश्वर्यदं चैव पुत्र पौत्रादि वृद्धिदम्।
प्रभातसमये चैव पूजाकाले प्रयत्नतः।
सायङ्काले तथा पाठात् सर्वसिद्धिर्भवेद् ध्रुवम्।
शत्रुरुच्चाटनं याति देशाद् वा विच्युतो भवेत्।
पश्चात् किङ्करतामेति सत्यं सत्यं न संशयः।
शत्रुनाशकरं देवि सर्वसम्पत्करं शुभम्।
सर्वदेवस्तुते देवि कालिके त्वां नमाम्यहम्।