विंध्येश्वरी स्तोत्र

निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम्।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्।
त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम्।
दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम्।
वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम्।
लसत्सुलोललोचनां जने सदा वरप्रदाम्।
कपालशूलधारिणीं भजामि विन्ध्यवासिनीम्।
करो मुदा गदाधरः शिवां शिवप्रदायिनीम्।
वरावराननां शुभां भजामि विन्ध्यवासिनीम्।
ऋषीन्द्रजामिनिप्रदां त्रिधास्यरूपधारिणीम्।
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम्।
विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम्।
महोदरे विशालिनीं भजामि विन्ध्यवासिनीम्।
पुरन्दरादिसेवितां सुरारिवंशखण्डिताम्।
विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: English

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |