सर्वदेवाश्रयां सिद्धामिष्टसिद्धिप्रदां सुराम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
रत्नहारकिरीटादिभूषणां कमलेक्षणाम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
चेतस्त्रिकोणनिलयां श्रीचक्राङ्कितरूपिणीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
योगानन्दां यशोदात्रीं योगिनीगणसंस्तुताम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
जगदम्बां जनानन्ददायिनीं विजयप्रदाम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
सिद्धादिभिः समुत्सेव्यां सिद्धिदां स्थिरयोगिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
मोक्षप्रदात्रीं मन्त्राङ्गीं महापातकनाशिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
मत्तमातङ्गसंस्थां च चण्डमुण्डप्रमर्द्दिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
वेदमन्त्रैः सुसंपूज्यां विद्याज्ञानप्रदां वराम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
महादेवीं महाविद्यां महामायां महेश्वरीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
त्यागराज शिव स्तुति
नीलकन्धर भाललोचन बालचन्द्रशिरोमणे कालकाल कपालमाल हिमा....
Click here to know more..कृष्ण जन्म स्तुति
रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्मज्योतिर्निर्गु....
Click here to know more..दुर्गा सप्तशती - अध्याय २
ॐ अस्य मध्यमचरित्रस्य विष्णु-र्ऋषिः । महालक्ष्मीर्देव....
Click here to know more..