चामुण्डेश्वरी मंगल स्तोत्र

श्रीशैलराजतनये चण्डमुण्डनिषूदिनि।
मृगेन्द्रवाहने तुभ्यं चामुण्डायै सुमङ्गलम्।
पञ्चविंशतिसालाढ्यश्रीचक्रपुरनिवासिनि।
बिन्दुपीठस्थिते तुभ्यं चामुण्डायै सुमङ्गलम्।
राजराजेश्वरि श्रीमद्कामेश्वरकुटुम्बिनि।
युगनाथतते तुभ्यं चामुण्डायै सुमङ्गलम्।
महाकालि महालक्ष्मि महावाणि मनोन्मणि।
योगनिद्रात्मके तुभ्यं चामुण्डायै सुमङ्गलम्।
मन्त्रिणि दण्डिनि मुख्ययोगिनि गणसेविते।
भण्डदैत्यहरे तुभ्यं चामुण्डायै सुमङ्गलम्।
निशुम्भमहिषाशुम्भेरक्तबीजादिमर्दिनि।
महामाये शिवे तुभ्यं चामुण्डायै सुमङ्गलम्।
कालरात्रि महादुर्गे नारायणसहोदरि।
विन्ध्याद्रिवासिनि तुभ्यं चामुण्डायै सुमङ्गलम्।
चन्द्रलेखालसत्पाले श्रीमत्सिंहासनेश्वरि।
कामेश्वरि नमस्तुभ्यं चामुण्डायै सुमङ्गलम्।
प्रपञ्चसृष्टिरक्षादिपञ्चकार्यधुरन्धरे।
पञ्चप्रेतासने तुभ्यं चामुण्डायै सुमङ्गलम्।
मधुकैटभसंहर्त्रि कदम्बवनवासिनि।
महेन्द्रवरदे तुभ्यं चामुण्डायै सुमङ्गलम्।
निगमागमसंवेद्ये श्रीदेवि ललिताम्बिके।
ओढ्याणपीठगदे तुभ्यं चामुण्डायै सुमङ्गलम्।
पुण्ड्रेक्षुखण्डकोदण्डपुष्पकण्ठलसत्करे।
सदाशिवकले तुभ्यं चामुण्डायै सुमङ्गलम्।
कामेशभक्तमाङ्गल्य श्रीमत्त्रिपुरसुन्दरि।
सूर्याग्नीन्दुत्रिनेत्रायै चामुण्डायै सुमङ्गलम्।
चिदग्निकुण्डसम्भूते मूलप्रकृतिरूपिणि।
कन्दर्पदीपके तुभ्यं चामुण्डायै सुमङ्गलम्।
महापद्माटवीमध्ये सदानन्दविहारिणि।
पाशाङ्कुशधरे तुभ्यं चामुण्डायै सुमङ्गलम्।
सर्वदोषप्रशमनि सर्वसौभाग्यदायिनि।
सर्वसिद्धिप्रदे तुभ्यं चामुण्डायै सुमङ्गलम्।
सर्वमन्त्रात्मिके प्राज्ञे सर्वयन्त्रस्वरूपिणि।
सर्वतन्त्रात्मिके तुभ्यं चामुण्डायै सुमङ्गलम्।
सर्वप्राणिहृदावासे सर्वशक्तिस्वरूपिणि।
सर्वाभिष्टप्रदे तुभ्यं चामुण्डायै सुमङ्गलम्।
वेदमातर्महाराज्ञि लक्ष्मि वाणि वसुप्रिये।
त्रैलोक्यवन्दिते तुभ्यं चामुण्डायै सुमङ्गलम्।
ब्रह्मोपेन्द्रसुरेन्द्रादिसम्पूजितपदाम्बुजे।
सर्वायुधकरे तुभ्यं चामुण्डायै सुमङ्गलम्।
महाविद्यासम्प्रदात्रि संवेद्यनिजवैभवे।
सर्वमुद्राकरे तुभ्यं चामुण्डायै सुमङ्गलम्।
एकपञ्चाशते पीठे निवासात्मविलासिनि।
अपारमहिमे तुभ्यं चामुण्डायै सुमङ्गलम्।
तेजोमयि दयापूर्णे सच्चिदानन्दरूपिणि।
सर्ववर्णात्मिके तुभ्यं चामुण्डायै सुमङ्गलम्।
हंसारूढे चतुर्वक्त्रे ब्राह्मीरूपसमन्विते।
धूम्राक्षसहन्त्रिके तुभ्यं चामुण्डायै सुमङ्गलम्।
माहेस्वरीस्वरूपे पञ्चास्ये वृषभवाहने।
सुग्रीवपञ्चिके तुभ्यं चामुण्डायै सुमङ्गलम्।
मयूरवाहे षट्वक्त्रे कौमारीरूपशोभिते।
शक्तियुक्तकरे तुभ्यं चामुण्डायै सुमङ्गलम्।
पक्षिराजसमारूढे शङ्खचक्रलसत्करे।
वैष्णवीसंज्ञिके तुभ्यं चामुण्डायै सुमङ्गलम्।
वाराहि महिषारूढे घोररूपसमन्विते।
दंष्ट्रायुधधरे तुभ्यं चामुण्डायै सुमङ्गलम्।
गजेन्द्रवाहनारुढे इन्द्राणीरूपवासुरे।
वज्रायुधकरे तुभ्यं चामुण्डायै सुमङ्गलम्।
चतुर्भुजे सिंहवाहे जटामण्डिलमण्डिते।
चण्डिके सुभगे तुभ्यं चामुण्डायै सुमङ्गलम्।
दंष्ट्राकरालवदने सिंहवक्त्रे चतुर्भुजे।
नारसिंहि सदा तुभ्यं चामुण्डायै सुमङ्गलम्।
ज्वलज्जिह्वाकरालास्ये चण्डकोपसमन्विते।
ज्वालामालिनि तुभ्यं चामुण्डायै सुमङ्गलम्।
भृङ्गिणे दर्शितात्मीयप्रभावे परमेश्वरि।
नानारूपधरे तुभ्यं चामुण्डायै सुमङ्गलम्।
गणेशस्कन्दजननि मातङ्गि भुवनेश्वरि।
भद्रकालि सदा तुभ्यं चामुण्डायै सुमङ्गलम्।
अगस्त्याय हयग्रीवप्रकटीकृतवैभवे।
अनन्ताख्यसुते तुभ्यं चामुण्डायै सुमङ्गलम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |